Last modified on 31 जुलाई 2015, at 16:35

अद्यावधि / कौशल तिवारी

अद्यावधि चाकचक्येन स्वरक्षणाय शक्तोऽहम्।
प्रातरेव ते सारल्येन सुगमतया वंचितोऽहम्॥
शृणोमि जनाः कथयन्ति ते निद्राहरणं मया कृतम्,
केनापि नैव दृष्टं प्रतिदिवसं त्वया लुण्ठितोऽहम्॥
आजीवनं ग्रन्थेष्वेव रे! मस्तकं मया दत्तम्,
अद्य निमिषमात्रेण तव लोचनाभ्यां सुशिक्षितोऽम्॥
यस्माद्रक्षणाय सावधानः कृतः प्रत्येकं जनः,
तस्मिन्नेव प्रणयखाते स्वेच्छया पतितोऽहम्॥
सर्वं दत्त्वापि ननु विलक्षणप्रणयव्यापारे,
झटित्येव कथं रिक्तहस्तक‘स्तिवारी’ पूरितोऽहम्॥