उपदेशसाहस्री / उपदेश ८ / आदि शंकराचार्य
चितिस्वरूपं स्वत एव मे मते रसादियोगस्तव मोहकारितः।
अतो न किंचित् तव चेष्टितेन मे फलं भवेत् सर्वविशेषहानतः॥
विमुच्य मायामयकार्यतामिह प्रशान्तिमायाह्यसदीहितात् सदा।
अहं परं ब्रह्म सदा विमुक्तवत् तथाजमेकं द्वयवर्जितं यतः॥
सदा च भूतेषु समोऽस्मि केवलो यथा च खं सर्वगमक्षरं शिवम्।
निरन्तरं निष्कलमक्रियं परं ततो न मेऽस्तीह फलं तवेहितैः॥
अहं ममैको न तदन्यदिष्यते तथा न कस्याप्यहमस्म्यसञ्गतः।
असञ्गरूपोऽहमतो न मे त्वया कृतेन कार्यं तव चाद्वयत्वतः॥
फले च हेतौ च जनो विषक्तवानिति प्रचिन्याहमतो विमोक्षणे।
जनस्य संवादमिमं प्रक्ळ्प्तवान् स्वरूपतत्त्वार्थविबोधकारणम्॥
संवादमेतं यदि चिन्तयेन् नरो विमुच्यतेऽज्ञानमहाभयागमात्।
विमुक्तकामश्च तथा जनः सदा चरत्यशोकः सम आत्मवित् सुखी॥