सेनापतिं नन्दनमन्धकद्विषो युधे पुरस्कृत्य बलस्य शात्रवः।
सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती हृदयप्रकम्पिनी॥१॥
चमूप्रभुं मन्मथमर्दनात्मजं विजित्वरीभिर्विजयश्रियाश्रितम्।
श्रुत्वा सुराणां पृतनाभिरागतं चित्ते चिरं चुक्षुभिरे महासुराः॥२॥
समेत्य दैत्याधिपतेः पुरे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते।
न्यवेदयन्मन्मथशत्रुसूनुना युयुत्सुना जम्भजितं सहागतम्॥३॥
दासीकृताशेषजगत्त्रयं न मां जिगाय युद्धे कतिशः शचीपतिः।
गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं विजेतेति स काकुतोऽहसत्॥४॥
ततः क्रुधा विस्फुरिताधराधरः स तारको दर्पितदोर्बलोद्धतान्।
युधे त्रिलोकीजयकेलिलालसः सेनापतीन् संनहनार्थमादिशत्॥५॥
महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः।
तस्थुर्विनम्रक्षितिपालसंकुले तदङ्गनद्वारवरप्रकोष्ठके॥६॥
स द्वारपालेन पुरः प्रदर्शितान्कृतानतीन्बाहुवरानधिष्ठितान्।
महाहवाम्भोधिविधूननोद्धतान्ददर्श राजा पृतनाधिपान्बहून्॥७॥
बली बलारातिबलातिशातनं दिग्दन्तिनादद्रवनाशनस्वनम्।
महीधराम्भोधिनवारितक्रमं ययौ रथं घोरमथाधिरुह्य सः॥८॥
युगक्षयक्षुब्धपयोधिनिःस्वनाश्चलत्पताकाकुलवारितातपाः।
धरारजोग्रस्तदिगन्तभास्कराः पतिं प्रयान्तं पृतनास्तमन्वयुः॥९॥
चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं प्रसर्पिणः।
दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दानाम्बुघनेषु पङ्कताम्॥१०॥
महीभृतां कन्दरदारणोल्बणैस्तद्वाहिनीनां पटहस्वनैर्घनैः।
उद्वेलिताश्चुक्षुभिरे महार्णवा नभःस्त्रवन्ती सहसाऽभ्यवर्धत॥११॥
सुरारिनाथस्य महाचमूस्वनैर्विगाह्यमाना तुमुलैः सुरापगा।
अभ्युच्छ्रितैरूर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेतनावलीम्॥१२॥
अथ प्रयाणाभिमुखस्य नाकिनां द्विषः पुरस्तादशुभोपदेशिनी।
अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातपरम्परा तव॥१३॥
आगामिदैत्याशनकेलिकाङ्क्षिणी कुपक्षिणां घोरतरा परम्परा।
दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा॥१४॥
मुहुर्विभग्नातपवारणध्वजश्चलद्धराधूलिकुलाकुलेक्षणः।
धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः॥१५॥
सद्यो विभिन्नाञ्जनपुञ्जतेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः।
पुरः पथोऽतीत्य महाभुजङ्गमा भयंकराकारभृतो भृशं ययुः॥१६॥
मिलन्महाभीमभुजङ्गभूषणं प्रभुर्दिनानां परिवेषमादधौ।
महासुरस्य द्विषतोऽतिमत्सरादि वान्तमासूचयितुं भयङ्करः॥१७॥
त्विषामधीशस्य पुरोऽधिमण्डलं शिवाः समेताः परुषं ववाशिरे।
सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव॥१८॥
दिवापि तारास्तरलास्तरस्विनीः परापतन्तीः परितोऽथ वाहिनीः।
विलोक्य लोको मनसा व्यचिंन्तयत्प्राणव्ययान्तं व्यसनं सुरद्विषः॥१९॥
ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम्।
रवेण रौद्रेण हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात्॥२०॥
ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः।
धूमं ज्वलन्त्यो व्यसृजन्मुखै रजो दधुर्दिशो रासभकण्ठधूसरम्॥२१॥
निर्घातघोषो गिरिश्रृङ्गशातनो घनोऽम्बराशाकुहरोदरम्भरिः।
बभूव भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जितगर्जितर्जनः॥२२॥
स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः।
प्रक्षुभ्यदंभोधिविभिन्नभूधराद् बलं द्विषोऽभूदवनि प्रकम्पात्॥२३॥
ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः।
श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः॥२४॥
अपीति पश्यन्परिणामदारुणां महत्तमां गाढमरिष्टसंततिम्।
दुर्दैवदष्टो न खलु न्यवर्तत क्रुधा प्रयाणव्यवसायतो सुरः॥२५॥
अरिष्टमाशङ्क्य विपाकदारुणं निवार्यमाणोऽपि बुधैर्महासुरः।
पुरः प्रतस्थे महतां वृथा भवेदसद्ग्रहान्धस्य हितोपदेशनम्॥२६॥
क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरघर्मवारणम्।
रराज मृत्योरिव पारणाविधौ प्रकल्पितं हाटकभाजनं महत्॥२७॥
विजानता भावि शिरो निकृन्तनं प्रज्ञेन शोकादिव तस्य मौलिना।
मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलवाष्पबिन्दुभिः॥२८॥
निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः।
अपाति गृध्रैरभिमौलिमाकुलैर्भविष्यदेतन्मरणोपदेशिभिः॥२९॥
सद्यो निकृत्ताञ्जनसोदरद्युतिं फणामणिप्रज्वलदंशुमण्डलम्।
निर्यद्विषोल्कानलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमैक्षत॥३०॥
रथाश्वकेशावलिकर्णचामरं ददाह बाणासनबाणबाणधीन्।
अकाण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दनधुर्यगोचरः॥३१॥
इत्याद्यरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः।
यदा मदान्धो न गतात्न्यवर्तताम्बरात्तदाभून्मरुतां सरस्वती॥३२॥
मदान्ध मा गा भुजदण्डचण्डिमावलेपतो मन्मथहन्तृसूनुना।
सुरैः सनाथेन पुरंदरादिभिः समं समन्तात्स(६ मरं विजित्वरैः॥३३॥
गुहोऽसुरैः षड्दिनजातमात्रको निदाघधामेव निशातमोभरैः।
विषह्यते नाभिमुखो हि संगरे कुतस्त्वया तस्य समं विरोधिता॥३४॥
अभ्रंलिहैः श्रृङ्गशतैः समन्ततो दिक्चक्रवालैः स्थगितस्य भूभृतः।
क्रौञ्चस्य रन्ध्रं विशिखेन निर्ममे येनाहवस्तस्य सह त्वया कुतः॥३५॥
लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम्।
कृत्वाभिषेकं रुधिराम्बुभिर्घनैः स्वक्रोधवह्निं शमयांबभूव यः॥३६॥
न जामदग्न्यः क्षयकालरात्रिकृत्स क्षत्रियाणां समराय वल्गति।
येन त्रिलोकीसुभटेन तेन कुतोऽवकाशः सह विग्रहग्रहे॥३७॥
त्यजाशु गर्वं मदमूढ मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम्।
तमेव नूनं शरणं व्रजाधुना जगत्सुवीरं स चिराय जीव तत्॥३८॥
श्रुत्वेति वाचं वियतो गरीयसीं क्रोधादहंकारपरो महासुरः।
प्रकम्पिताशेषजगत्त्रयोऽपि सन्नकम्पतोच्चैर्दिवमभ्यधाच्च सः॥३९॥
किं ब्रूथ रे व्योमचरा महासुराः स्मरारिसूनुप्रतिपक्षवर्तिनः।
मदीयबाणव्रणवेदना हि साऽधुना कथं विस्मृतिगोचरीकृता॥४०॥
कटुस्वरैः प्रालपथाम्बरस्थिताः शिशोर्बलात्षड्दिनजातकस्य किम्।
श्वानः प्रमत्ता इव कार्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव॥४१॥
सङ्गेन वो गर्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम्।
अतस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽप्य मुम्॥४२॥
इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं क्रुधा।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः॥४३॥
ततोऽवलेपाद्विकटं विहस्य स व्यवत्त कोशादसिमुत्तमं बहिः।
रथं द्रुतं प्रापय वासवान्तिकं नन्वित्यवोचन्निजसारथिं रथी॥४४॥
मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः।
ततः प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः॥४५॥
पुरः सुराणां पुतनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम्।
बभार भूम्नाथ स बाहुदण्डयोः प्रचण्डयोः सङ्गरकेलिकौतुकी॥४६॥
ततो महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते॥४७॥
पुरःस्थितं देवरिपोश्चमूचरा बलद्विषः सैन्यसमुद्रमभ्ययुः।
भुजं समुत्क्षिप्य परेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन्॥४८॥
पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा परं चुक्षुभिरे महासुराः।
पुरारिसूनोर्नयनैककोणके ममुर्भटास्तस्य रणेऽवहेलया॥४९॥
द्विषद्वलत्रासवि भीषिताश्चमूर्दिवौकसामन्धकशत्रुनन्दनः।
अपश्यदुद्दिश्य महारणोत्सवं प्रसादपीयूषधरेण चक्षुषा॥५०॥
उत्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा मखाशनाः।
अहं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य सङ्गतिः॥५१॥
परस्परं वज्रधरस्य सैनिका द्विषोऽपि योद्धुं स्वकरोद्धृतायुधाः।
वैतालिकश्राविततारविक्रमाभिधानमीयुर्विजयैषिणो रणे॥५२॥
सङ्ग्रामं प्रलयाय संनिपततो वेलामतिक्रामतो
वृन्दारासुरसैन्यसागरयुगस्याशेषदिग्व्यापिनः।
कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोषणः
शैलोत्तालतटीविघट्टनपटुर्ब्रह्माण्डकुक्षिंभरिः॥५३॥
इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसम्भवे सुरासुरसैन्यसंघट्ट
नाम पञ्चदशः सर्गः॥