भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

नवा नायिका / राधावल्लभः त्रिपाठी

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

न सा निर्वर्णयति स्वकीयं रूपं
दर्पणे
चिरम्
उपभोगचिह्नानि
नखक्षतानि दन्तक्षतानि विलोकयन्ती।
उपनेत्रं धृत्वा
दैनन्दिन्यामङ्कयति
रजकस्य देयम्, दुग्धस्य देयम्

नित्यं पूर्णिमाया प्रकाश
न निस्सरति तस्या वदनात्
सा रसवत्यां
सततं कर्मव्यग्रा
अन्तर्गतमन्धकारं
निरस्यति स्वयं स्वकीयम्
सा सञ्चारिणी दीपशिखा नास्ति
वरमालां धृत्वा यं यं व्यत्यैतु
स स विवर्णभावं यातु
सा रात्रैः पर्यायं समाप्य स्वयमेव विवर्णमुखी निस्सरति
कस्माच्चिद् आह्वानकेन्द्रात्
तया साकमपि तन्न घटेत
यस्य वार्ताभिः पूरितानि भवन्ति दैनन्दिनवार्तापत्राणि
इत्याशङ्कमाना
मनोदीपे ज्योतिर्ज्वलति च तदीये किमपि तत्।