नारिकेलम् / राधावल्लभः त्रिपाठी
एकोऽसौ प्रबभूव नैकविटपो यो नारिकेलद्रुमः
काचिच्छ्रेष्ठफलप्रसूतिरनघा देवालयेऽस्यार्पिता।
हस्ताद्धस्तमियं तथैव च गता देवप्रसादायिता
युक्ताऽन्यापि च मङ्गले परिणये सत्कार्यकार्येऽथवा।।
तन्तूनामपरा प्रदीर्घततिभी रज्जूयते गुम्फिता
साऽग्नौ प्रज्ज्वलति प्रदत्तहविषा त्वन्या तथैवेन्धनैः।
देशाद् देशमथापि राशिवितता यानैश्च पोतैस्तथा
नीताऽन्या क्व गता क्व लोपमयितेत्येवं न जानीमहे।।
पिष्टाऽन्या किल निर्दयं च कृपणैस्तैलस्य निर्यासने
नीताऽन्धे तमसीव रम्यवनिताधम्मिल्लजालेऽपतत्।
निष्ठ्यूता त्वपरा विलासमदिरानिःश्च्योतनार्थं पुन-
र्भक्ष्यं स्वादु बभूव काऽपि सरसा त्वन्या च लेह्यायिता।।
तृष्णार्तैरपरा पुनश्च नितरां घर्मे च शुष्काधरैः
काचिच्छीतरसप्रपाणकविधौ स्वेदाञ्चितैश्चुम्बिता।
भुक्ता चाथ तिरस्कृताऽपि बहुशः सर्वैस्तथोपेक्षिता
प्रक्षिप्ता पतिता पुनः क्वचिदहो वीथीषु शेतेऽन्यथा।।