भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

प्रश्नोपनिषत् / पञ्चमः प्रश्नः / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

 
अथ हैनं सैब्यः सत्यकामः पप्रच्छ।
स यो हवै तभ्दगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत।
कतमं वाव स तेन लोकं जयतीति।
तस्मै स होवाच॥१॥
 
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति॥२॥
 
स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते।
तमृचो मनुष्यलोकमुपनयन्ते स तत्र
तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति॥३॥
 
अथ यदि द्विमात्रेण मनसि संपध्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम्।
स सोमलोके विभुतिमनुभूय पुनरावर्तते॥४॥
 
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि-ध्यायीत स तेजसि सूर्ये संपन्नः।
यथा पादोदरस्त्वचाविनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स
सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरुशयं पुरुषमीक्षते।
तदेतौ श्लोकौ भवतः॥५॥
 
तिस्रो मात्रा मृअत्युमत्यः प्रयुक्ता
अन्योन्यसक्ताः अनविप्रयुक्ताः।
क्रियासु बाह्याभ्यन्तरमध्यमासु
सम्यक् प्रयुक्तासु न कम्पते ज्ञः॥६॥
 
ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते।
तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति॥७॥
 
इति प्रश्नोपनिषदि पञ्चमः प्रश्नः॥