भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

प्रेमसत्रम् / बलराम शुक्ल

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

नवीनसत्रं पुनरागतं गतस्
तपो गता प्रावृषि कालसूचिका।
वकाशमाक्षिप्य कृतं हि बालकैर्
नवीनवर्गं गमनाय मानसम्॥
पुरातनप्रेमविदीर्णचेतसां
न नो नवीनं किमपीह विद्यते।
ततो वियोगः क्षयकालसूर्यवत्
सदायमाचामति चित्तचेतनाम्॥
नभोनभस्याविव चक्षुषोर्द्वयी
निरन्तरं वर्षति प्रावृषं विना।
गता कदा प्रावृडिहागता कदा
न मेऽवकाशः स्मरणाय किञ्चन॥
नवीनवर्गान् प्रतिहायनं समे
प्रयान्ति बाला नियतोत्तरोत्तरम्।
अहं तु रुद्धप्रसरो बताधुनाऽ
नुरागवर्गे प्रपठामि मातृकाम्॥


न नूतनाध्यापनमत्र जायते
न वावकाशस्य कदापि घोषणा।
वियोगकक्षे तु निषाद्य केवलं
भवत्यहोरात्रमहो परीक्षणम्॥
नवीनसत्रे नववस्त्रशोभिताः
प्रयान्ति सोत्कं पठनाय बालकाः।
ममात्र गात्रे तु तथैव सीदति
विशीर्णतन्तु प्रणयस्य कर्पटम्॥
न विद्यते नूतनसत्रसंगमे
करे परेषामिव पुस्तकं नवम्।
हृदन्तराले लिखितं पुरातनं
तदेव तन्नाम पठामि सन्ततम्॥
मनोऽवकाशे प्रणयस्य देशिको
वियोगपाठान् नितरां ददाति मे।
करोमि किं बाष्पमषीमिषादहं
निरन्तरं वक्षसि लेखनाद्विना॥