Last modified on 16 अगस्त 2016, at 23:23

मुस्ताक्षतिः / राधावल्लभः त्रिपाठी

किं किं किं करणीयमत्र खलु नः संसारचिन्ताकुलैः
किङ्कर्तव्यविमूढतां खलु गतैस्तैर्वा जनैः साम्प्रतम्।
लोकस्योद्धरणं तथा न खलु नो व्यूढो भरो वर्तते
सन्तुष्टा रचयाम शूकरवरा मुस्ताक्षतिं पल्वले।।
किं तस्य स्मरणेन यः कृतयुगे चासीत्तु नः पूर्वजः
येनेयं धरणी रसातलगता सून्नायिता चोद्धृता।
राज्ये पङ्कसमाकुले वयमहो तुण्डं निवेश्य स्वकं
सन्तुष्टा रचयाम शूकरवरा मुस्ताक्षतिं पल्वले।।
आकाशः स्फुटितः पतेदथ धरापृष्ठे धरा सागरे
मज्जेद्वा, विलयं प्रयान्तु विपुलाः सर्वे सरित्सागराः।
किं नश्छिन्नमनेन कालकवलं यायात् समस्तं जगत्
विश्रब्धं रचयाम शूकरवरा मुस्ताक्षतिं पल्वले।।