भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

मेघदूतम् / उत्तरमेघा / कालिदास

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम
अन्तस्तोयं मणिमयभुवस तुङ्गम अभ्रंलिहाग्राः
प्रासादास त्वां तुलयितुम अलं यत्र तैस तैर विशेषैः॥२.१॥

हस्ते लीलाकमलम अलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुताम आनने श्रीः
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम॥२.२॥

यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः
केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः॥२.३॥

आनन्दोत्थं नयनसलिलम्यत्र नान्यैर निमित्तैर
नान्यस तापं कुसुमशरजाद इष्टसंयोगसाध्यात
नाप्य अन्यस्मात प्रणयकलहाद विप्रयोगोपपत्तिर
वित्तेशानां न च खलु वयो यौवनाद अन्यद अस्ति॥२.४॥

यस्यां यक्षाः सितमणिमयान्य एत्य हर्म्यस्थलानि
ज्योतिश्चायाकुसुमरचितान्य उत्तमस्त्रीसहायाः
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व आहतेषु॥२.५॥

मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर
मन्दाराणाम अनुतटरुहां चायया वारितोष्णाः
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः॥२.६॥

नीवीबन्धोच्च्वासितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्व आक्षिपत्सु प्रियेषु
अर्चिस्तुङ्गान अभिमुखम अपि प्राप्य रत्नप्रदीपान
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥२.७॥

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर
आलेख्यानां सलिलकणिकादोषम उत्पाद्य सद्यः
शङ्कास्पृष्टा इव जलमुचस त्वादृशा जालमार्गैर
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति॥२.८॥

यत्र स्त्रीणां प्रियतमभुजोच्च्वासितालिङ्गितानाम
अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः
त्वत्संरोधापगमविशदश चन्द्रपादैर निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश चन्द्रकान्ताः॥२.९॥

अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर
उद्गायद्भिर धनपतियशः किंनरैर यत्र सार्धम
वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति॥२.१०॥

गत्युत्कम्पाद अलकपतितैर यत्र मन्दारपुष्पैः
पुत्रच्चेदैः कनककमलैः कर्णविस्रंशिभिश च
मुक्ताजालैः स्तनपरिसरच्चिन्नसूत्रैश च हारैर
नैशो मार्गः सवितुर उदये सूच्यते कामिनीनाम॥२.११॥

वासश चित्रं मधु नयनयोर विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर भूषणानां विकल्पम
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम
एकः सूते सकलम अबलामण्डनं कल्पवृक्षः॥२.१२॥

पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
शैलोदग्रास त्वम इव करिणो वृष्टिमन्तः प्रभेदात
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश चन्द्रहासव्रणाङ्कैः॥२.१३॥

मत्वा देवं धनपतिसखं यत्र साक्षाद वसन्तं
प्रायश चापं न वहति भयान मन्मथः षट्पदज्यम
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व अमोघैस
तस्यारम्भश चतुरवनिताविभ्रमैर एव सिद्धः॥२.१४॥

तत्रागारं धनपतिगृहान उत्तरेणास्मदीयं
दूराल लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः॥२.१५॥

वापी चास्मिन मरकतशिलाबद्धसोपानमार्गा
हैमैश्चन्ना विकचकमलैः स्निग्धवैदूर्यनालैः
यस्यास तोये कृतवसतयो मानसं संनिकृष्टं
नाध्यास्यन्ति व्यपगतशुचस त्वाम अपि प्रेक्ष्य हंसाः॥२.१६॥

तस्यास तीरे रचितशिखरः पेशलैर इन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम एव स्मरामि॥२.१७॥

रक्ताशोकश चलकिसलयः केसरश चात्र कान्तः
प्रत्यासन्नौ कुरुवकवृतेर माधवीमण्डपस्य
एकः सख्यास तव सह मया वामपादाभिलाषी
काङ्क्षत्य अन्यो वदनमदिरां दोहदच्चद्मनास्याः॥२.१८॥

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर
मूले बद्धा मणिभिर अनतिप्रौढवंशप्रकाशैः
तालैः शिञ्जावलयसुभगैर नर्तितः कान्तया मे
याम अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद वः॥२.१९॥

एभिः साधो हृदयनिहितैर लक्षणैर लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा
क्षामच्चायां भवनम अधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम॥२.२०॥

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः
अर्हस्य अन्तर्भवनपतितां कर्तुम अल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम॥२.२१॥

तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः
श्रोणीभाराद अलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद युवतीविषये सृष्टिर आद्यैव धातुः॥२.२२॥

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीम इवैकाम
गाढोत्कण्ठां गुरुषु दिवसेष्व एषु गच्चत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम॥२.२३॥

नूनं तस्याः प्रबलरुदितोच्चूननेत्रं प्रियाया
निःश्वासानाम अशिशिरतया भिन्नवर्णाधरोष्ठम
हस्तन्यस्तं मुखम असकलव्यक्ति लम्बालकत्वाद
इन्दोर दैन्यं त्वदनुसरणक्लिष्टकान्तेर बिभर्ति॥२.२४॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती
पृच्चन्ती वा मधुरवचनां सारिकां पञ्जरस्थां
कच्चिद भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति॥२.२५॥

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयम उद्गातुकामा
तन्त्रीम आर्द्रां नयनसलिलैः सारयित्वा कथंचिद
भूयो भूयः स्वयम अपि कृतां मूर्च्चनां विस्मरन्ती॥२.२६॥

शेषान मासान विरहदिवासस्थापितस्यावधेर वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः
सम्भोगं वा हृदयनिहितारम्भम आस्वादयन्ती
प्रायेणैते रमणविरहेष्व अङ्गनानां विनोदाः॥२.२७॥

सव्यापारम अहनि न तथा पीडयेद विप्रयोगः
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते
मत्सन्देशः सुखयितुम अलं पश्य साध्वीं निशीथे
ताम उन्निद्राम अवनिशयनां सौधवातायनस्थः॥२.२८॥

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां
प्राचीमूले तनुम इव कलामात्रशेषां हिमांशोः
नीता रात्रिः क्षण इव मया सार्धम इच्चारतैर या
ताम एवोष्णैर विरहमहतीम अश्रुभिर यापयन्तीम॥२.२९॥

पादान इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान
पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव
चक्षुः खेदात सलिलगुरुभिः पक्ष्मभिश्चादयन्तीं
साभ्रेऽह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम॥२.३०॥

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात परुषमलकं नूनमागण्ण्दलम्बम
मत्संभोगः कथमुपनमेत स्वप्नजोऽपीति निद्राम
आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम॥२.३१॥

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम
स्पर्शक्लिष्टाम अयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात कठिनविषमाम एकवेणीं करेण॥२.३२॥

सा संन्यस्ताभरणम अबला पेशलं धारयन्ती
शय्योत्सङ्गे निहितम असकृद दुःखदुःखेन गात्रम
त्वाम अप्य अस्रं नवजलमयं मोचयिष्यत्य अवश्यं
प्रायः सर्वो भवति करुणावृत्तिर आर्द्रान्तरात्मा॥२.३३॥

जाने सख्यास तव मयि मनः संभृतस्नेहमस्माद
इत्थंभूतां प्रथमविरहे ताम अहं तर्कयामि
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलम अचिराद भ्रातर उक्तं मया यत॥२.३४॥

रुद्धापाङ्गप्रसरम अलकैर अञ्जनस्नेहशून्यं
प्रत्यादेशाद अपि च मधुनो विस्मृतभ्रूविलासम
त्वय्य आसन्ने नयनम उपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच चलकुवलयश्रीतुलाम एष्यतीति॥२.३५॥

वामश चास्याः कररुहपदैर मुच्यमानो मदीयैर
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या
संभोगान्ते मम समुचितो हस्तसंवाहमानां
यास्यत्य ऊरुः सरसकदलीस्तम्भगौरश चलत्वम॥२.३६॥

तस्मिन काले जलद यदि सा लब्धनिद्रासुखा स्याद
अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व
मा भूद अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम॥२.३७॥

ताम उत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां समम अभिनवैर जालकैर मालतीनाम
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरः स्तनितवचनैर मानिनीं प्रक्रमेथाः॥२.३८॥

भर्तुर मित्रं प्रियम अविधवे विद्धि माम अम्बुवाहं
तत्संदेशैर हृदयनिहितैर आगतं त्वत्समीपम
यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां
मन्द्रस्निग्धैर ध्वनिभिर अबलावेणिमोक्षोत्सुकानि॥२.३९॥

इत्य आख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वाम उत्कण्ठोच्च्वसितहृदया वीक्ष्य सम्भाव्य चैव
श्रोष्यत्य अस्मात परम अवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः संगमात किंचिद ऊनः॥२.४०॥

ताम आयुष्मन मम च वचनाद आत्मनश चोपकर्तुं
ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः
अव्यापन्नः कुशलम अबले पृच्चति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनाम एतद एव॥२.४१॥

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रुद्रुतम अविरतोत्कण्ठम उत्कण्ठितेन
उष्णोच्च्वासं समधिकतरोच्च्वासिना दूरवर्ती
संकल्पैस तैर विशति विधिना वैरिणा रुद्धमार्गः॥२.४२॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात
कर्णे लोलः कथयितुम अभूद आननस्पर्शलोभात
सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम अदृष्टस
त्वाम उत्कण्ठाविरचितपदं मन्मुखेनेदम आह॥२.४३॥

श्यामास्व अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्चायां शशिनि शिखिनां बर्हभारेषु केशान
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान
हन्तैकस्मिन क्वचिद अपि न ते चण्डि सादृश्यम अस्ति॥२.४४॥

त्वाम आलिख्य प्रणयकुपितां धातुरागैः शिलायाम
आत्मानं ते चरणपतितं यावद इच्चामि कर्तुम
अस्रैस तावन मुहुर उपचितैर दृष्टिर आलुप्यते मे
क्रूरस तस्मिन्न अपि न सहते संगमं नौ कृतान्तः॥२.४५॥

धारासिक्तस्थलसुरभिणस त्वन्मुखस्यास्य बाले
दूरीभूतं प्रतनुम अपि मां पञ्चबाणः क्षिणोति
घर्मान्ते ऽस्मिन विगणय कथं वासराणि व्रजेयुर
दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि॥२.४५अ॥

माम आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर
लब्धायास ते कथम अपि मया स्वप्नसन्दर्शनेषु
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास तरुकिसलयेष्व अश्रुलेशाः पतन्ति॥२.४६॥

भित्त्वा सद्यः किसलयपुटान देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वं स्पृष्टं यदि किल भवेद अङ्गम एभिस तवेति॥२.४७॥

संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्व अहर अपि कथं मन्दमन्दातपं स्यात
इत्थं चेतश चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतम अशरणं त्वद्वियोगव्यथाभिः॥२.४८॥

नन्व आत्मानं बहु विगणयन्न आत्मनैवावलम्बे
तत्कल्याणि त्वम अपि नितरां मा गमः कातरत्वम
कस्यात्यन्तं सुखम उपनतं दुःखम एकान्ततो वा
नीचैर गच्चत्य उपरि च दशा चक्रनेमिक्रमेण॥२.४९॥

शापान्तो मे भुजगशयनाद उत्थिते शार्ङ्गपाणौ
शेषान मासान गमय चतुरो लोचने मीलयित्वा
पश्चाद आवां विरहगुणितं तं तम आत्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥२.५०॥

भूयश्चाह त्वम अपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किम अपि रुदती सस्वरं विप्रबुद्धा
सान्तर्हासं कथितम असकृत पृच्चतश च त्वया मे
दृष्टः स्वप्ने कितव रमयन काम अपि त्वं मयेति॥२.५१॥

एतस्मान मां कुशलिनम अभिज्ञानदानाद विदित्वा
मा कौलीनाद असितनयने मय्य अविश्वासिनी भूः
स्नेहान आहुः किम अपि विरहे ध्वंसिनस ते त्व अभोगाद
इष्टे वस्तुन्य उपचितरसाः प्रेमराशीभवन्ति॥२.५२॥

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलाद आशु त्रिनयनवृषोत्खातकूटान निवृत्तः
साभिज्ञानप्रहितकुशलैस तद्वचोभिर ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥२.५३॥

कच्चित सौम्य व्यवसितम इदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान न खलु भवतो धीरतां कल्पयामि
निःशब्दो ऽपि प्रदिशसि जलं याचितश चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सताम ईप्सितार्थक्रियैव॥२.५४॥

एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्रीर्मा
भूदेवं क्षणमपि च ते विद्युता विप्रयोगः॥२.५५॥