भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

विवेकचूडामणि / श्लोक संख्या २५१-३०० / आदि शंकराचार्य

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

मृत्कार्यं सकलं घटादि सततं मृन्मात्रमेवाहितं
तद्वत्सज्जनितं सदात्मकमिदं सन्मात्रमेवाखिलम्।
यस्मान्नास्ति सतः परं किमपि तत्सत्यं स आत्मा स्वयं
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्॥ २५१॥

निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः।
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्॥ २५२॥

यत्र भ्रान्त्या कल्पित तद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम्।
स्वप्ने नष्टं स्वप्नविश्वं विचित्रं
स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे॥ २५३॥

जातिनीतिकुलगोत्रदूरगं
नामरूपगुणदोषवर्जितम्।
देशकालविषयातिवर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि॥ २५४॥

यत्परं सकलवागगोचरं
गोचरं विमलबोधचक्षुषः।
शुद्धचिद्घनमनादि वस्तु यद्
ब्रह्म तत्त्वमसि भावयात्मनि॥ २५५॥

षड्भिरूर्मिभिरयोगि योगिहृद्
भावितं न करणैर्विभावितम्।
बुद्ध्यवेद्यमनवद्यमस्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि॥ २५६॥

भ्रान्तिकल्पितजगत्कलाश्रयं
स्वाश्रयं च सदसद्विलक्षणम्।
निष्कलं निरुपमानवद्धि यद्
ब्रह्म तत्त्वमसि भावयात्मनि॥ २५७॥

जन्मवृद्धिपरिणत्यपक्षय
व्याधिनाशनविहीनमव्ययम्।
विश्वसृष्ट्यवविघातकारणं
ब्रह्म तत्त्वमसि भावयात्मनि॥ २५८॥

अस्तभेदमनपास्तलक्षणं
निस्तरङ्गजलराशिनिश्चलम्।
नित्यमुक्तमविभक्तमूर्ति यद्
ब्रह्म तत्त्वमसि भावयात्मनि॥ २५९॥

एकमेव सदनेककारणं
कारणान्तरनिरास्यकारणम्।
कार्यकारणविलक्षणं स्वयं
ब्रह्म तत्त्वमसि भावयात्मनि॥ २६०॥

निर्विकल्पकमनल्पमक्षरं
यत्क्षराक्षरविलक्षणं परम्।
नित्यमव्ययसुखं निरञ्जनं
ब्रह्म तत्त्वमसि भावयात्मनि॥ २६१॥

यद्विभाति सदनेकधा भ्रमान्
नामरूपगुणविक्रियात्मना।
हेमवत्स्वयमविक्रियं सदा
ब्रह्म तत्त्वमसि भावयात्मनि॥ २६२॥

यच्चकास्त्यनपरं परात्परं
प्रत्यगेकरसमात्मलक्षणम्।
सत्यचित्सुखमनन्तमव्ययं
ब्रह्म तत्त्वमसि भावयात्मनि॥ २६३॥

उक्तमर्थमिममात्मनि स्वयं
भावयेत्प्रथितयुक्तिभिर्धिया।
संशयादिरहितं कराम्बुवत्
तेन तत्त्वनिगमो भविष्यति॥ २६४॥

संबोधमात्रं परिशुद्धतत्त्वं
विज्ञाय सङ्घे नृपवच्च सैन्ये।
तदाश्रयः स्वात्मनि सर्वदा स्थितो
विलापय ब्रह्मणि विश्वजातम्॥ २६५॥

बुद्धौ गुहायां सदसद्विलक्षणं
ब्रह्मास्ति सत्यं परमद्वितीयम्।
तदात्मना योऽत्र वसेद्गुहायां
पुनर्न तस्याङ्गगुहाप्रवेशः॥ २६६॥

ज्ञाते वस्तुन्यपि बलवती वासनानादिरेषा
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः।
प्रत्यग्दृष्ट्यात्मनि निवसता सापनेया प्रयत्नान्
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत्॥ २६७॥

अहं ममेति यो भावो देहाक्षादावनात्मनि।
अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया॥ २६८॥

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम्।
सोऽहमित्येव सद्वृत्त्यानात्मन्यात्ममतिं जहि॥ २६९॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम्।
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु॥ २७०॥

लोकवासनया जन्तोः शास्त्रवासनयापि च।
देहवासनया ज्ञानं यथावन्नैव जायते॥ २७१॥

संसारकारागृहमोक्षमिच्छोर्
अयोमयं पादनिबन्धशृङ्खलम्।
वदन्ति तज्ज्ञाः पटु वासनात्रयं
योऽस्माद्विमुक्तः समुपैति मुक्तिम्॥ २७२॥

जलादिसंसर्गवशात्प्रभूत
दुर्गन्धधूतागरुदिव्यवासना।
संघर्षणेनैव विभाति सम्यग्
विधूयमाने सति बाह्यगन्धे॥ २७३॥

अन्तःश्रितानन्तदूरन्तवासना
धूलीविलिप्ता परमात्मवासना।
प्रज्ञातिसंघर्षणतो विशुद्धा
प्रतीयते चन्दनगन्धवत्स्फुटम्॥ २७४॥

अनात्मवासनाजालैस्तिरोभूतात्मवासना।
नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम्॥ २७५॥

यथा यथा प्रत्यगवस्थितं मनः
तथा तथा मुञ्चति बाह्यवासनाम्।
निःशेषमोक्षे सति वासनानां
आत्मानुभूतिः प्रतिबन्धशून्या॥ २७६॥

स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः।
वासनानां क्षयश्चातः स्वाध्यासापनयं कुरु॥ २७७॥

तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति।
तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु॥ २७८॥

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः।
धैर्यमालम्ब्य यत्नेन स्वाध्यासापनयं कुरु॥ २७९॥

नाहं जीवः परं ब्रह्मेत्यतद्व्यावृत्तिपूर्वकम्।
वासनावेगतः प्राप्तस्वाध्यासापनयं कुरु॥ २८०॥

श्रुत्या युक्त्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः।
क्वचिदाभासतः प्राप्तस्वाध्यासापनयं कुरु॥ २८१॥

अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः।
तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु॥ २८२॥

तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः।
ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु॥ २८३॥

अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि।
सावधानेन युक्तात्मा स्वाध्यासापनयं कुरु॥ २८४॥

प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता।
तावन्निरन्तरं विद्वन्स्वाध्यासापनयं कुरु॥ २८५॥

निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः।
क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि॥ २८६॥

मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः।
त्यक्त्वा चाण्डालवद्दूरं ब्रह्मीभूय कृती भव॥ २८७॥

घटाकाशं महाकाश इवात्मानं परात्मनि।
विलाप्याखण्डभावेन तूष्णी भव सदा मुने॥ २८८॥

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना।
ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्॥ २८९॥

चिदात्मनि सदानन्दे देहारूढामहंधियम्।
निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा॥ २९०॥

यत्रैष जगदाभासो दर्पणान्तः पुरं यथा।
तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि॥ २९१॥

यत्सत्यभूतं निजरूपमाद्यं
चिदद्वयानन्दमरूपमक्रियम्।
तदेत्य मिथ्यावपुरुत्सृजेत
शैलूषवद्वेषमुपात्तमात्मनः॥ २९२॥

सर्वात्मना दृश्यमिदं मृषैव
नैवाहमर्थः क्षणिकत्वदर्शनात्।
जानाम्यहं सर्वमिति प्रतीतिः
कुतोऽहमादेः क्षणिकस्य सिध्येत्॥ २९३॥

अहंपदार्थस्त्वहमादिसाक्षी
नित्यं सुषुप्तावपि भावदर्शनात्।
ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं
तत्प्रत्यगात्मा सदसद्विलक्षणः॥ २९४॥

विकारिणां सर्वविकारवेत्ता
नित्याविकारो भवितुं समर्हति।
मनोरथस्वप्नसुषुप्तिषु स्फुटं
पुनः पुनर्दृष्टमसत्त्वमेतयोः॥ २९५॥

अतोऽभिमानं त्यज मांसपिण्डे
पिण्डाभिमानिन्यपि बुद्धिकल्पिते।
कालत्रयाबाध्यमखण्डबोधं
ज्ञात्वा स्वमात्मानमुपैहि शान्तिम्॥ २९६॥

त्यजाभिमानं कुलगोत्रनाम
रूपाश्रमेष्वार्द्रशवाश्रितेषु।
लिङ्गस्य धर्मानपि कर्तृतादिंस्
त्यक्ता भवाखण्डसुखस्वरूपः॥ २९७॥

सन्त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः।
तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः॥ २९८॥

यावत्स्यात्स्वस्य संबन्धोऽहंकारेण दुरात्मना।
तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा॥ २९९॥

अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते।
चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः॥ ३००॥