{{KKGlobal}}{{KKRachna|रचनाकार=शास्त्री नित्यगोपाल कटारे |संग्रह=}}[[Category:संस्कृत]]{{KKCatKavita}}<Poem> प्रेषितं न किञ्चित् सन्देशम् हा गतः प्रियतमः विदेशम्।।विदेशम् ।।
खण्डितं तु सप्तपञ्च वचनानुबन्धं कस्यचिदागच्छति षडयन्त्रस्यगन्धं।षडयन्त्रस्यगन्धं । दृश्यते ह्रदि अपरा प्रवेशम् । हा गतः प्रियतमः विदेशम्।।विदेशम् ।।
रोचते न तेन बिना शुष्क शुष्क दिवसः निशा भवति भयावहा क्रमश;क्रमशः कष्टकरं सर्वं परिवेशम्।परिवेशम् । हा गतः प्रियतमः विदेशम्।।विदेशम् ।।
श्रूयते तु अहर्निशं स्वासुः अपशब्दं दैनिकोपियोगि वस्तु अस्ति नोपलब्धं रोचते न स्वशुरोपदेशम् । हा गतः प्रियतमः विदेशम्।।विदेशम् ।।
वैरी प्रत्यागतॊ न भवति एक-मासः आगतं न पत्रं न कृतं दूरभाषः प्रेषितं च नैव धनादेशम्।धनादेशम् । हा गतः प्रियतमः विदेशम्।।विदेशम् ।।
न जानेप्यहं तेन त्यक्ता किमर्थम् अधुनाहं थकितास्मि पथ दर्शं-दर्शं किमर्थं ददाति ह्रदय क्लेशम्।क्लेशम् । हा गतः प्रियतमः विदेशम्।।विदेशम् ।।</poem>