Changes

अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्ब प्राग्भारः स्थगयतिलघुत्वंनयति च ॥ ८१॥
 
करीन्द्राणां शुण्डाः कनक कदली काण्डपटली -
मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विजिग्‍ये जानुभ्यांविबुधकरिकुम्भद्वयमसि ॥८२॥
 
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दश शरफलाः पादयुगली -
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥८३॥
 
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणि रुचिः ॥८४॥
 
नमोवाकं ब्रूमो नयनरमणीयाय पदयो -
स्तवास्मै द्वन्द्वाय स्फुटरुचि रसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकंकेलितरवे ॥८५॥
 
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥८६॥
 
हिमानी हन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ ।
परं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजंत्वत्पादौ जननि जयतश्चित्रमिह किम् ॥८७॥
 
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीखर्परतुलाम् ।
कथं चिद्वाहुभ्यामुपयमन काले पुरभिदा
यदादायन्यस्तं दृषदि दयमानेन मनसा ॥८८॥
 
नखैर्नाकस्त्रीणां करकमल संकोच शशिभि -
स्तरूणां दिव्यानां हसत इवते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥८९॥
 
ददाने दीनेभ्यः श्रियमनिशमाशानुऽसदृशी -
ममन्दं सौन्दर्य प्रकरमकरन्दं विकिरति ।
तवास्मिन्मन्दार स्तबक सुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्‍चरणताम् ॥९०॥
<poem>
514
edits