Last modified on 10 मई 2015, at 00:07

सौन्दर्य लहरी / पृष्ठ - ५ / आदि शंकराचार्य

तवाधारे मूले सह समयया लास्यपरया ।
नवात्मानं मन्ये नवरस महाताण्डव नटम् ॥
उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।
सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥४१॥


गतै र्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ॥
सनीडेयच्छायाच्छरणशबलं चन्द्र शकलम् ।
धनुः शौनासीरं किमिति न निबध्नातिधिषणाम् ॥४२॥

धुनोतु ध्वान्तंनस्तुलित दलितेन्दीवर वनं ।
घन स्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ॥
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।
वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥४३॥