पृथ्वीन्द्रवर्णोदय
(वि.सं. १८२७)
अत्युत्तुङ्गपतङ्गघोरमकरा वाहप्रवाहोच्छिता
भूयः स्यन्दननीरयानलसिता चञ्चद्ध्वजैः फेनिला
वेल्लत्खड्गभुजङ्गभृद्भुजतरङ्गाञ्चद्भटाम्बुचेछटा
श्रीदेवाङि्घृविराजित गतवती प्राची बभौ वाहिनी ।।३३।।
एवं युद्धमभूतयोः प्रबलयोर्गोरक्षनेपालयो -
र्भूभृत्पालितयोर्मिथो हि बलयोः संस्फूर्जितस्पर्धयोः ।
यस्मिन् रक्तसरःशतं समभवद्वीरप्रतीकाण्डजं
तत्खड्गाहिशताकुलोत्तरमहो तच्चर्मकूमायुतम् ।।३८।।
हैमाच्छादनमंदिरंविलसितां द्विड्राजधानीं ततः
ख्यातां कांतिपुरीं रुरोध बलवान् व्यूहैबहिर्वेष्टयन् ।
भिन्दन् भीममहानलास्त्रनिनदैधैय्यं द्विपां निर्भरं
घोरंवीरय्वैर्यथा रघुपतिर्लङ्कां दशास्यान्विताम् ।।४८।।
अत्यर्थ रणमल्वणं समभवद्भूयस्तयोः सैन्ययोः
पत्तीनां गजगाश्वशालिरथिनां स्पर्द्धोद्धप्रानां मिथः ।।
खड्गैरग्निशरैः शरैः परशुभिश्वक्रैरथो मुद्गरैः
खट्वाङ्गैरुरुशक्तिभिश्च मुशलैर्दुःप्रस्तरैस्तोमरैः ।।५०।।
गोरक्षेशमहानुभावकलया जाता हि नद्यर्थगा
नेपालेशव्रवाहिनी द्रुतमसृङ् नीरप्रवाहावहा ।
नक्रीभूतमृतेभवाजिकरभा वीराङ्गमत्स्यान्वता
नौकीभूतरथाऽसिपन्नगयुता लोमालिशैवालिनी ।।५३।।
पार्श्वे राजितया तया ललितया संस्ब्यमानः सदा
भक्तेनाऽनापि पुर स्थितेन सनृपः श्रीकान्तिपुर्या वसन्
शश्वत्सन्नतराजमुकुटोद्योतन्मणिग्रामणी-
संधृष्टाङ्थ्रिनखोज्ज्वलांशुलसितो धने पुरारिद्युतिम् ।।६७।।
वैदेही श्रियमात्मसात्कृतवता तेनाऽथ वै धन्विना
तत्रत्योरुधनप्प्रभञ्जनविधेरन्यान् धराधीश्वरान् ।
कृत्वा संयति दुर्भदाश्च विमदान् गोरक्षभूमीभृता
संप्राप्ताशु दिगास्यमर्दनकृता सीतापतेः साम्यता ।।६८।।
प्रतापाग्निं यज्ञे समिति कलयन्साक्षिकपेद
वितन्वानो लेखा अतिरुधिरसिन्दूरबहलै ।
बधूं पृथ्वीनारायणनृपवरः क्ष्मां सुवबह
न्सकामं संभुङ्क्तेऽ नवरतमिहाक्रम्य सरसाम् ।।६९।।
XXX ग्रहभूपसमितशके सूर्य्ये स्थिते वृश्चिके
देवेज्ये च X रासने स्मरतिथौ पक्षे रमेशप्रभे
सोत्साहं विरचय्य शीघ्रमलिखत् पृथ्वीन्द्रवर्णोदयं
काव्यं श्रीललितादिवल्लभकविः श्रीकान्तपुर्य्यां शुभम् ।।
(अर्थ- श्री ललितावल्लभ कविले कान्तिपुरमा बसेर शाके १६९२ (वि. सं. १८२७) सूर्य वृश्चिकराशिमा बसेका (मङसिर महिनामा) कृष्णपक्ष त्रयोदशी वृहस्पतिबारको दिन उत्साहपूर्वक राम्रो पृथ्वीन्द्रवर्णोदय काव्य झटपट बनाएर आफ्नै हातले लेखे ।
('पृथ्वीन्द्रवर्णोदय' बाट उद्धृतांश)