Last modified on 19 जून 2014, at 19:39

तेजोबिन्दूपनिषत् / पञ्चमोऽध्यायः / संस्कृतम्‌

 
निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रूहीति।

स होवाच ऋभुः। सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः।
सर्वकारणकार्यात्मा कार्यकारणवर्जितः॥१॥

सर्वसङ्कल्परहितः सर्वनादमयः शिवः।
सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः॥२॥

सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः।
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः॥३॥

सर्वनादकलातीत एष आत्माहमव्ययः।
आत्मानात्मविवेकादिभेदाभेदविवर्जितः॥४॥

शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः।
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः॥५॥

तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः।
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः॥६॥

अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः।
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः॥७॥

आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः।
सच्चिदानन्दहीनो य एषैवात्मा सनातनः॥८॥

स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः।
यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च॥९॥

यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः।
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः॥१०॥

नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा।
सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम्॥११॥

गुणं वा विगुणं वापि सम आत्मा न संशयः।
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा॥१२॥

गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः।
यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि॥१३॥

यत्र कालमकालं वा निश्चयः संशयो न हि।
यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते॥१४॥

द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम्।
अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा॥१५॥

अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु।
सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात्॥१६॥

केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु।
देहत्रयविहीनत्वात्कालत्रयविवर्जनात्॥१७॥

जीवत्रयगुणाभावात्तापत्रयविवर्जनात्।
लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात्॥१८॥

चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च।
पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च॥१९॥

मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम्।
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च॥२०॥

अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि।
एकाभावे द्वितीयं न न द्वितीये न चैकता॥२१॥

सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च संभवेत्।
असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति॥२२॥

शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते।
भयं यद्यभवं विद्धि अभयाद्भयमापतेत्॥२३॥

बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता।
मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च॥२४॥

त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न।
इदं यदि तदेवास्ति तदभादिदं न च॥२५॥

अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन।
कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम्॥२६॥

द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च।
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न॥२७॥

अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च।
पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते॥२८॥

तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम्।
नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे॥२९॥

परंब्रह्माहमस्मीति स्मरणस्य मनो न हि।
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम्॥३०॥

चिन्मात्रं केवल।म् चाहं नास्त्यनात्म्येति निश्चिनु।
इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित्॥३१॥

चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा।
न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः॥३२॥

मायाकार्यादिकं नास्ति माया नास्ति भयं नहि।
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि॥३३॥

समाधिद्वितयं नास्ति मातृमानादि नास्ति हि।
अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन॥३४॥

अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न।
न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि॥३५॥

न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित्।
न देवा न च दिक्पाला न वेदा न गुरुः क्वचित्॥३६॥

न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम्।
नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च॥३७॥

बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा।
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम्॥३८॥

सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि।
चिदित्येवेति नास्त्येव चिदहंभाषणं न हि॥३९॥

अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित्।
वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित्॥४०॥

बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि।
योगी योगादिकं नास्ति सदा सर्वं सदा न च॥४१॥

अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि।
भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु॥४२॥

वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः।
लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः॥४३॥

बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः।
गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः॥४४॥

वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत्।
मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः॥४५॥

बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित्।
शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते॥४६॥

श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम्॥४७॥

इदमित्येव निर्दिष्टमयमित्येव कल्प्यते।
त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च॥४८॥

यद्यत्संभाव्यते लोके सर्वसङ्कल्पसंभ्रमः।
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम्॥४९॥

सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु।
मदीयं च त्वदीयं च ममेति च तवेति च॥५०॥

मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत्।
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम्॥५१॥

संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु।
स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम्॥५२॥

मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम्।
अन्तःकरणसद्भाव अविद्याश्च संभवः॥५३॥

अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु।
सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम्॥५४॥

दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते।
वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु॥५५॥

येन केनाक्षरेणोक्तं येन केन विनिश्चितम्।
येन केनापि गदितं येन केनापि मोदितम्॥५६॥

येन केनापि यद्दत्तं येन केनापि यत्कृतम्।
यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम्॥५७॥

यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु।
त्वमेव परमात्मासि त्वमेव परमो गुरुः॥५८॥

त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा।
त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः॥५९॥

कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः।
सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि॥६०॥

सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि।
देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि॥६१॥

समोऽसि सच्चापि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि।
सर्वाङ्गहीनोऽसि सदा स्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि॥६२॥

सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु च भासितोऽसि।
सर्वत्र सङ्कल्पविवर्जितोऽसि सर्वागमान्तार्थविभावितोऽसि॥६३॥

सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र गत्यादिविवर्जितोऽसि।
सर्वत्र लक्ष्यादिविवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम्॥६४॥

चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः।
आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः॥६५॥

आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः।
चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः॥६६॥

सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि।
सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः॥६७॥

अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि।
सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः॥६८॥

सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि।
नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः॥६९॥

ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः॥७०॥

लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः।
सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः॥७१॥

ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि।
स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि॥७२॥

स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः।
शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि॥७३॥

स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि।
स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु॥७४॥

इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥७५॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च।
अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम्॥७६॥

नाशो जन्म च सत्यं च पुण्यपापजयादिकम्।
रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम्॥७७॥

गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम्।
भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम्॥७८॥

शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम्।
यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम्॥७९॥

आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः।
इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा॥८०॥

चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम्।
सजातीयं विजातीयं लोका भूरादयः क्रमात्॥८१॥

सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम्।
विद्याविद्यादिरूपं च सर्ववेदं जडाजडम्॥८२॥

बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम्।
बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम्॥८३॥

सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम्।
अनेकजीवसद्भावमेकजीवादिनिर्णयम्॥८४॥

यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित्।
बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत्॥८५॥

यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम्।
यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक्॥८६॥

यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः।
शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम्॥८७॥

ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम्।
यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम्॥८८॥

सर्वोपनिषदां भावं सर्वं शशविषाणवत्।
देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम्॥८९॥

देहोऽहमिति सङ्कल्पो महत्संसार उच्यते।
देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते॥९०॥

देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते।
देहोऽहमिति यद्भानं तदेव नरकं स्मृतम्॥९१॥

देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते।
देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः॥९२॥

देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते।
देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च॥९३॥

देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते॥९४॥

देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम्॥९५॥

देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम्।
देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल॥९६॥

यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम्।
कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम्।
यत्किञ्चेदं सर्वसङ्कल्पजालं तत्किञ्चेदं मानसं सोम विद्धि॥९७॥

मन एव जगत्सर्वं मन एव महारिपुः।
मन एव हि संसारो मन एव जगत्त्रयम्॥९८॥

मन एव महद्दुःखं मन एव जरादिकम्।
मन एव हि कालश्च मन एव मलं तथा॥९९॥

मन एव हि सङ्कल्पो मन एव हि जीवकः।
मन एव हि चित्तं च मनोऽहङ्कार एव च॥१००॥

मन एव महद्बन्धं मनोऽन्तःकरणं च तत्।
मन एव हि भूमिश्च मन एव हि तोयकम्॥१०१॥

मन एव हि तेजश्च मन एव मरुन्महान्।
मन एव हि चाकाशं मन एव हि शब्दकम्॥१०२॥

स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम्॥१०३॥

दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः।
दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम्॥१०४॥

सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत्॥१०५॥


इति पञ्चमोऽध्यायः॥५॥