बाला वयन्ति
वर्तमानस्य सूक्ष्मतन्तुभिर्
भविष्यस्य कमपि स्वप्नम्,
सहसा पतति तस्मिन्
आकाशमार्गात्
कापि शापिता माला
विलोपयति च तासां
सम्पूर्णमस्तित्वम्।
बाला निर्मान्ति
कल्पनानां मृत्तिकया
किमपि दिव्यगृहम्,
सहसा भनक्ति तं
कस्यापि दुर्वाससः शापः।
बालाः प्रविशन्ति
रमणीयं संसारं
हरिणी-गत्या,
सहसा जडा भवन्ति ताः
कस्मादपि स्कन्दशापकारणात्
(कोऽपि पुरुरवा नाऽऽनयति
संगमनीयमणिमपि) ,
न जाने बालाभिः कृतः
कः प्रमादो यत्
पूर्णतां न लभते
तासां जीवनग्रन्थः
कयोरपि पार्वतीपरमेश्वरयोः
शापकारणात्॥