Last modified on 16 अगस्त 2016, at 23:06

बीजानि / राधावल्लभः त्रिपाठी

कानिचिद् बीजानि
कुशूलकोणे शिष्टानि
उत्कायन्ते स्म -
किमर्थं न वयं क्षिप्ताः कस्मिश्चित् केदारे
कश्चिदस्मान् स्वहस्ते उत्थापयेद्
अस्मानपि उच्छाल्य उच्छाल्य वपेत् क्षेत्रे
वयमपि अङ्कुरायामहे, पल्लवायामहे, पत्रायामहे,
वयमपि शस्यनिवहे आत्मानं विकिरामः
भवामश्च पुनरपि बीजमेव।
तेषां स्वप्नाः दिवास्वप्नायिताः।

कच्चरचये क्षिप्तानि कानिचिद् बीजानि
तत्रैव उच्छ्रिलीन्ध्रायन्ते स्म
यावत् ते पश्येयुः कमपि स्वप्नम्
तावन्नगरपालिकाया कच्चरवाहनं
तान्युत्खाय निनाय।

कानिचित्तान्यपि आसन् बीजानि
येषां बीजत्वमेवापहृतं
प्रयोगशालासु
निर्वीर्यतां गतानि वन्ध्यानि तानि -
बीजायितुं काङ्क्षन्ते स्म।
कठिना भवति
बीजभावापत्तिः
ततोऽप्यधिकतरं कठिनं
बीजस्याङ्कुरीभवनं
कठिनैव पुनरङ्कुरस्य शाखासु पल्लवेषु विस्तृतिः
वाञ्छति प्रत्येकं बीजं
अङ्कुरायितुं, पल्लवायितुं, शाखायितुम् शस्यायितुं
समेषां बीजानां कामास्तु न फलन्ति।
अथ तेषां बीजानां किं स्यात् -
यानि मनसः कोणे क्षिप्तानि अतिष्ठन्?