भो शास्त्ररचयितः!
किमर्थं न लिखितं त्वया
बुभुक्षाशास्त्रम्
लिखितमभविष्यत् चेज्
ज्ञातमभविष्यद् यत्
कीदृशी कीदृशी भवति बुभुक्षा
सहस्रभुजा
सहस्रपादा
सहस्रशीर्षा
सहस्रोदराऽपि।
अपि चाऽवतरति यदा सा
कस्मिन्नपि देहे
तदा रोमांचो न भवति तत्र,
याच्ञा भवति तत्र तु
केवलं याच्ञा॥
(2)
सार्वभौमी भवति बुभुक्षा
देशकालयोः सीमभिरबाधिता
ब्रह्यवत्।
कथं भवितुं शक्नोति
विदर्भप्रदेशस्य बुभुक्षा भिन्ना
नक्सलवाडिबुभुक्षायाः ।
या बुभुक्षा दृश्यते
दिल्लीविश्वविद्यालयपरिसरे
रिक्षाचालकनेत्रयोः,
सैव बुभुक्षा दृष्टा मया
राजस्थानप्रदेशस्यैककोणे उपेक्षितानां
सहरियाऽऽदिवासिनां नेत्रयोः॥
(3)
रक्तबीजवद् भवति बुभुक्षा
रविवासरस्याऽवकाशदिवसेषु
सर्वकारविद्यालयानां छात्राणाम्॥
(4)
यदि नामाऽभियोगाः स्वीकर्तुं शक्रेयन्
बुभुक्षायाम्,
बुभुक्षाया हेतौ
तदा तु
न्यायालयाः पूरिता स्युर्
अभियोगानां संचिकाभिः।
चौर्यस्य
हननस्य
लुण्ठनस्य
नैके अभियोगाः
सर्वेषु न्यायालयेषु,
अभियुक्ता च केवलमेका,
किन्तु कः करिष्यति
तत्पक्षसमर्थनं न्यायालयेषु,
कश्च निर्णयं दास्यति,
यतोहि सर्वे भविष्यन्ति
तस्या विरुद्धपक्षवर्गे॥