केन कथितं पीता मया मदिरा? मया न पीता मदिरा मदिरया पीतोऽहम् आकण्ठम्, तथापि अतृप्ता सा। मदिरालये प्रतीक्षायां मे पश्यति मार्गम्। चषके स्खलति तस्याः देहः। मम मदे करोति सा अस्फुटभाषणम्। सत्यं मया न पीता मदिरा मदिरया पीतोऽहम्॥