धनुर्वाणांपाशंश्रृणिमपि दधाना करतलैः
पुरस्तादास्तांनः पुरमथितु राहो पुरुषिका ॥७॥
सुधासिन्धोर्मध्ये सुरविटपिवाटिपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे
शिवाऽकारे मञ्चेपरमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिजन चिदानन्दलहरीम् ॥८॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं ।
स्थितं स्वाधिष्ठाने हृदिमरुतमाकाश मुपरि ॥
मनोऽपि भ्रूमध्ये सकलमपिभित्वा कुलपथं ।
सहस्रारे पद्मे सह रहसि पत्या विहरते ॥९॥
सुधाऽऽधारासारे श्चरणयुगलान्तर्विगलितैः ।
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः॥
अवाप्य स्वांभूमिं भुजगनिभमध्युष्टवलयं ।
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणी॥१०॥
</poem>