Last modified on 16 अगस्त 2016, at 23:24

स्नुही / राधावल्लभः त्रिपाठी

न सन्ति निम्बाश्वत्थवटादयो महातरवः
देवदारूणामत्र कथैव का
परितो दूरं यावत्
दन्दह्यमानो घर्मः
मरुश्च निगिलन्निव सर्वम्।
सुरसैव मुखं व्यादाय प्रसरता मरुणा
आस्ते च
इयमेकाकिनी युध्यन्ती
स्नुही।