Last modified on 9 जुलाई 2014, at 14:59

उपदेशसाहस्री / उपदेश १८ / आदि शंकराचार्य

येनात्मना विलीयन्त उद्भवन्ति च वृत्तयः।
 नित्यावगतये तस्मै नमो धीप्रत्ययात्मने॥

प्रमथ्य वज्रोपमयुक्तिसंभृतैः श्रुतेररातीञ् शतशो वचोऽसिभिः।
 ररक्ष वेदार्थिनिधिं विशालधीर्नमो यतीन्द्रियाय गुरोर्गरीयसे॥

नित्यमुक्तः सदेवास्मीत्येवं चेन् न भवेन् मतिः।
 किमर्थं श्रावयत्येवं मातृवच्छ्रुतिरादृता॥

सिद्धादेवाहमित्यस्माद् युष्मद्धर्मो निषिध्यते।
 रज्ज्वामिवाहिधीर्युक्त्या तत् त्वमित्यादिशासनैः॥

शास्त्रप्रामण्यतो ज्ञेया धर्मादेरस्तिता यथा।
 विषापोहो यथा ध्यानाद् ह्नुतिः स्यात् पाप्मनस्तथा॥

सद् ब्रह्माहं करोमीति प्रत्ययावात्मसाक्षिकौ।
 तयोरज्ञानजस्यैव त्यागो युक्ततरो मतः॥

सदस्मीति प्रमाणोत्था धीरन्या तन्निबोद्भवा।
 प्रत्यक्षादिनिभा वापि बाध्यते दिग्भ्रमादिवत्॥

कर्ता भोक्तेति यच्छास्त्रं लोकबुद्ड्यनुवादि तत्।
 सदस्मीति श्रुतेर्जाता बाध्यतेऽनित्यैतयैव धीः॥

सदेव त्वमसीत्युक्ते नात्मनो मुक्ततां स्थिराम्।
 प्रपद्यते प्रसंचक्षामतो युक्त्यानुचिन्तयेत्॥

सकृदुक्तं न गृह्णाति वाक्यार्थज्ञोऽपि यो भवेत्।
 अपेक्षतेऽत एवान्यदवोछाम द्वयं हि तत्॥

नियोगोऽप्रतिपन्नत्वात् कर्मणां स यथा भवेत्।
 अविरुद्धो भवेत् तावद् यावत् संवेद्यतादृढा॥

चेष्टितं च तथा मिथ्या स्वच्छन्दः प्रतिपद्यते।
 प्रसंख्यानमतः कार्यं यावदात्मानुभूयते॥

सदस्मीति च विज्ञानमक्षजो बाधते ध्रुवम्।
 शब्दोत्थं दृढसंस्कारो दोषैश्चाकृष्यते बहिः॥

श्रुतानुमानजन्मानौ सामान्यविषयौ यतः।
 प्रत्ययावक्षजोऽवश्यं वीशेषार्थो निवारयेत्॥

वाक्यार्थप्रत्ययी कश्चिन् निर्दुःखो नोपलभ्यते।
 यदि वा दृश्यते कश्चिद् वाक्यार्थश्रुतिमात्रतः॥

निर्दुःखोऽतीतदेहेषु कृतभावोऽनुमीयते।
 चर्या नोऽशास्त्रसंवेद्या स्यादनिष्टं तथा सति॥

सदसीति फलं चोक्त्वा विधेयं साधनं यतः।
 न तदन्यत् प्रसंख्यानात् प्रसिद्धार्थमिहेष्यते॥

तस्मादनुभवायैव प्रसंचक्षीत यत्नतः।
 त्यजन् साधनतत्साध्यविरुद्धं शमनादिमान्॥

नैतदेवं रहस्यानां नेतिनेत्यवसानतः।
 क्रियासाध्यं पुरा श्राव्यं न मोक्षो नित्यसिद्धतः॥

पुत्रदुःखं यथाध्यस्तं नित्यादुःखे स्व आत्मनि।
 अहंकर्त्रा तथाध्यस्तं पित्रादुःखे स्व आत्मनि॥

सोऽध्यासो नेति नेतीति प्राप्तवत् प्रतिषिध्यते।
 भूयोऽध्यासविधिः कश्चित् कुतश्चिन् नोपपद्यते॥

आत्मनीह यथाध्यासः प्रतिषेधस्तथैव च।
 मलाध्यासनिषेधौ खे क्रियेते च यथाबुधैः॥

प्राप्तश्चेत् प्रतिषिध्येत मोक्षोऽनित्यो भवेद् ध्रुवम्।
 अतोऽप्राप्तनिषेधोऽयं दिव्यग्निचयनादिवत्॥

संभाव्यो गोचरे शब्दः प्रत्ययो वा न चान्यथा।
 न संभाव्यौ तदात्मत्वादहंकर्तुस्तथैव च॥

अहंकर्त्रात्मनि न्यस्तं चैतन्ये कर्तृतादि यत्।
 नेति नेतीति तत् सर्वं साहंकर्त्रा निषिध्यते॥

उपलभिः स्वयंज्योतिर्दृशिः प्रत्यक्षदक्रियः।
 साक्षात् सर्वानतरः साक्षी चेता नित्योऽगुणोऽद्वयः॥

संनिधौ सर्वदा तस्य स्यात् तदाभोऽभिमानकृत्।
 आत्मात्मीयं द्वयं चातः स्यादहंममगोचरः॥

जातिकर्मादिमत्त्वाद् धि तस्मिञ् शब्दस्त्वहंकृति।
 न कश्चिद् वर्तते शब्दस्तदभावात् स्व आत्मनि ॥

आभासो यत्र तत्रैव शब्दाः प्रत्यग्दृशिं स्थिताः।
 लक्षयेयुर्न साक्षात् तमभिदध्युः कथंचन॥

नह्यजात्यादिमान् कश्चिदर्थः शब्दैर्निरूप्यते।
आत्माभासो यतोऽहंकृदात्मशब्दैस्तथोच्यते॥

उल्मुकादौ यथाग्न्यर्थाः परार्थत्वान् न चाञ्जसा।
 मुखादन्यो मुखाभासो यथादर्शानुकारतः॥

आभासान् मुखमप्येवमादर्शानुवर्तनात्।
 अहंकृत्यात्मनिर्भासो मुखाभासवदिष्यते॥

मुखवत् स्थित आत्मान्योऽविविक्तौ तौ तथैव च।
 संसारी च स इत्येक आभासो यस्त्वहंकृति॥

वस्तु च्छाया स्मृतेरन्यन् माधुर्यादि च कारणम्।
 ज्ञैकदेशो विकारो वा तदाभासाश्रयः परे॥

अहंकर्तैव संसारी स्वतन्त्र इति केचन।
 अहंकारादिसंतानः संसारी नान्वयी पृथक्॥

इत्येवं सौगता आहुस्तत्र न्यायो विचार्यताम्।
 संसारिणां कथा त्वास्तां प्रकृतं त्वधुनोच्यते॥

मुखाभासो य आदर्शे धर्मो नान्यतरस्य सः।
 द्वयोरेकस्य चेद् धर्मो वियुक्तेऽन्यतरे भवेत्॥

मुखेन व्यपदेशात् स मुखस्यैवेति चेन् मतम्।
 नादर्शानुविधानाच् च मुखे सत्यविभावतः॥

द्वयोरेवेति चेत् तन् न द्वयोरेवाप्यदर्शनात्।
 अदृष्टस्य सतो दृष्टिः स्याद् राहोश्चन्द्रसूर्ययोः॥

राहोः प्रागेव वस्तुत्वं सिद्धं शास्त्रप्रमाणतः।
 छायापक्षे त्ववस्तुत्वं तस्य स्यात् पूर्वयुक्तितः॥

छायाक्रान्तेर्निषेधोऽयं न तु वस्तुत्वसाधकः।
 न ह्यर्थान्तरनिष्टं सद् वाक्यमर्थान्तरं वदेत्॥

माधुर्यादि च यत् कार्यमुष्णद्रव्याद्यसेवनात्।
 छायाया न त्वदृष्टत्वादपामेव च दर्शनात्॥

आत्माभासाश्रयाश्चैवं मुखाभासाश्रया यथा।
 गम्यते शास्त्रयुक्तिभ्यामाभासासत्त्वमेव च॥

न दृशेरविकारित्वादाभासस्याप्यवस्तुतः।
 नाचितित्वादहंकर्तुः कस्य संसारिता भवेत्॥

अविद्यामात्र एवातः संसारोऽस्त्वविवेकतः।
 कूटस्थेनात्मना नित्यमात्मवानात्मनीव सः॥

रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग् विवेकतः।
 अवस्तुसन्नपि ह्येष कूटस्थेनात्मना तथा॥

आत्माभासाश्रयश्चात्मा प्रत्ययैः स्वैर्विकारवान्।
 सुखी दुःखी च संसारी नित्य एवेति केचन॥

आत्माभासापरिज्ञानाद् यथात्म्येन विमोहिताः।
 अहंकर्तारमात्मेति मन्यन्ते ते निरागमाः॥

संसारो वस्तुसंस्तेषां कर्तृभोक्तृत्वलक्षणः।
 आत्माभासाश्रयाज्ञानात् संसरन्त्यविवेकतः॥

चैतन्याभासता बुद्धेरात्मनस्तत्स्वरूपता।
 स्याच् चेत् तं ज्ञानशब्दैश्च वेदः शास्तीति युज्यते॥

प्रकृतिप्रत्ययार्थौ यौ भिन्नावेकाश्रयौ यथा।
 करोति गच्छतीत्यादौ दृष्टौ लोकप्रसिद्धितः॥

नानयोर्द्व्याश्रयत्वं तु लोके दृष्टं स्मृतौ तथा।
 जानात्यर्थेषु को हेतुर्द्व्याश्रयत्वे निगद्यताम्॥

आत्माभासस्तु तिण्वाच्यो धात्वर्थश्च धियः क्रिया।
 उभयं चाविवेकेन जानातीत्युच्यते मृषा॥

न बुद्धेरवबोधोऽस्ति नात्मनो विद्यते क्रिया।
 अतो नान्यतरस्यापि जानातीति च युज्यते॥

नाप्यतो भावशब्देन ज्ञप्तिरित्यपि युज्यते।
 न ह्यात्मा विक्रियामात्रो नित्य आत्मेतिशासनात्॥

न बुद्धेर्बुद्धिवाच्यत्वं करणं न ह्य्कर्तृकम्।
 नापि ज्ञायत इत्येवं कर्मशब्दैर्निरुच्यते॥

न येषामेक एवात्मा निर्दुःखोऽविक्रियः सदा।
 तेषां स्याच्छब्दवाच्यत्वं ज्ञेयत्वं चात्मनः सदा॥

यदाहंकर्तुरात्मत्वं तदा शब्दार्थमुख्यता।
 नाशनायादिमत्त्वात् तु श्रुतौ तस्यात्मतेष्यते॥

हन्त तर्हि न मुख्यार्थो नापि गौणः कथंचन।
 जानातीत्यादिशब्दस्य गतिर्वाच्या तथापि तु॥

शब्दानामयथार्थत्वे वेदस्याप्यप्रमाणता।
 सा च नेष्टा ततो ग्राह्या गतिरस्य प्रसिद्धितः॥

प्रसिद्धिर्मूढलोकस्य यदि ग्राह्या निरात्मता।
 लोकायतिकसिद्धान्तः स चानिष्टः प्रसज्यते॥

अभियुक्तप्रसिद्धिश्चेत् पूर्ववद् दुर्विवेकता।
 गतिशून्यं न वेदोऽयं प्रमाणं संवदत्युत॥

आदर्शमुखसामान्यं मुखस्येष्टं हि मानवैः।
 मुखस्य प्रतिबिम्बो हि मुखाकारेण दृश्यते॥

यत्र यस्यावभासस्तु तयोरेवाविवेकतः।
 जानातीति क्रियां सर्वो लोको वक्ति स्वभावतः॥

बुद्धेः कर्तृत्वमध्यस्य जानातीति ज्ञ उच्यते।
 तथा चैतन्यमध्यस्य ज्ञत्वं बुद्धेरिहोच्यते॥

स्वरूपं चात्मनो ज्ञानं नित्यं ज्योतिः श्रुतेर्यतः।
 न बुद्ध्या क्रियते तस्मान् नात्मनान्येन वा सदा॥

देहेऽहंप्रत्ययो यद्वज् जानातीति च लौकिकाः।
 वदन्ति ज्ञानकर्तृत्वं तद्वद् बुद्धेस्तथात्मनः॥

बौद्धैस्तु प्रत्ययैरेवं क्रियमाणैश्च चिन्निभैः।
 मोहिताः क्रिअये ज्ञानमित्याहुस्तार्किका जनाः॥

तस्माज् ज्ञाभासबुद्धीनामविवेकात् प्रवर्तिताः।
 जानातीत्यादिशब्दश्च प्रत्ययो या च तत्स्मृतिः॥

आदर्शानुविधायित्वं छायाया अस्यते मुखे।
 बुद्धिधर्मानुकारित्वं ज्ञाभासस्य तथेष्यते॥

बुद्धेस्तु प्रत्ययास्तस्मादात्माभासेन दीपिताः।
 ग्राहका इव भासन्ते दहन्तीवोल्मुकादयः॥

स्वयमेवावभास्यन्ते ग्राहकाः स्वयमेव च।
 इत्येवं ग्राहकास्तीत्वं प्रतिषेधन्ति सौगताः॥

यद्येवं नान्यदृश्यास्ते किं तद्वारणमुच्यताम्।
 भावाभावौ हि तेषां यौ नान्यग्राह्यौ सदा यदि॥

अन्वयि ग्राहकस्तेषामित्येतदपि तत्समम्।
 अचितित्वस्य तुल्यत्वादन्यस्मिन् ग्राहके सति॥

अध्यक्षस्य समीपे तु सिद्धिः स्यादिति चेन् मतम्।
 नाध्यक्षेऽनुपकारित्वादन्यत्रापि प्रसञ्गतः॥

अर्थी दुःखी च यः श्रोता स त्वध्यक्षोऽथवेतरः।
 अध्यक्षस्य च दुःखित्वमर्थित्वं च न ते मतम्॥

कर्ताध्यक्षः सदस्मीति नैव सद्ग्रहमर्हति।
 सदेवासीति मिथ्योक्तिः श्रुतेरपि न युज्यते॥

अविविच्योभयं वक्ति श्रुतिश्चेत् स्याद् ग्रहस्तथा।
 अस्मदस्तु विविच्यैव त्वमेवेति वदेद् यदि॥

प्रत्ययान्वयिनिष्ठत्वमुक्तो दोषः प्रसज्यते।
 त्वमित्यध्यक्षनिष्ठश्चेदहमध्यक्षयोः कथम्॥

संबन्धो वाच्य एवात्र येन त्वमिति लक्षयेत्।
 द्रष्टृदृश्यत्वसंबन्धो यद्यध्यक्षेऽक्रिये कथम्॥

अक्रियत्वेऽपि तादात्म्यमध्यक्षस्य भवेद् यदि।
 आत्माध्यक्षो ममास्तीति संबन्धाग्रहणे न धीः॥

संबन्धग्रहणं शास्त्रादिति चेन् मन्यसे न हि।

पूर्वोक्ताः स्युस्त्रिधा दोषा ग्रहो वा स्यान् ममेति च॥

अदृशिर्दृशिरूपेण भाति बुद्धिर्यदा सदा।
 प्रत्यया अपि तस्याः स्युस्तप्तायोविस्फुलिञ्गवत्॥

आभासस्तदभावश्च दृशेः सीम्नो न चान्यथा।
 लोकस्य युक्तितः स्यातां तद्ग्रहश्च तथा सति॥

नन्वेवं दृशिसंक्रान्तिरयःपिण्डेऽग्निवद् भवेत्।
 मुखाभासवदित्येतदादर्शे तन् निराकृतम्॥

कृष्णायो रोहिताभासमित्येतद् दृष्टमुच्यते।
 दृष्टदार्ष्टान्तुल्यत्वं न तु सर्वात्मना क्वचित्॥

तथैव चेतनाभासं चित्तं चैतन्यवद् भवेत्।
 मुखाभासो यथादर्श आभासश्चोदितो मृषा॥

चित्तं चेतनमित्येतच्छास्त्रयुक्तिविवर्जितम्।
 देहस्यापि प्रसञ्गः स्याच् चक्षुरादेस्तथैव च॥

तदप्यस्त्विति चेत् तन् न लोकायतिकसंगतेः।
 न च धीर्दृशिरस्मीति यद्याभासो न चेतसि॥

सदस्मीति धियोऽभावे व्यर्थं स्यात् तत् त्वमस्यपि।
 युष्मदस्मद्विवेकज्ञे स्यादर्थवदिदं वचः॥

ममेदंप्रत्ययौ ज्ञेयौ युष्मद्येव न संशयः।
 अहमित्यस्मदीष्टः स्यादयमस्मीति चोभयोः॥

अन्योन्यापेक्षया तेषां प्रधानगुणतेष्यते।
 विशेषनविशेष्यत्वं तथा ग्राह्यं हि युक्तितः॥

ममेदं द्वयमप्येतन् मध्यमस्य विशेषणम्।
 धनी गोमान् यथा तद्वद् देहोऽहंकर्तुरेव च॥

बुद्ध्यारूढं सदा सर्वं साहंकर्त्रा च साक्षिणः।
 तस्मात् सर्वावभासो ज्ञः किंचिदप्यस्पृशन् सदा॥

प्रतिलोममिदं सर्वं यथोक्तं लोकबुद्धितः।
 अविवेकधियामस्ति नास्ति सर्वं विवेकिनाम्॥

अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च।
 स्यादेतदहमित्यत्र युक्तिरेवावधारणे॥

नाद्राक्षमहमिति अस्मिन् सुषुप्तेऽन्यन् मनागपि।
 न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति॥

स्वयंज्योतिर्न हि द्रष्टुरित्येवं संविदोऽस्थिताम्।
 कौटस्थ्यं च तथा तस्याः प्रत्ययस्य च लुप्तताम्।

स्वयमेवाब्रवीच् छास्त्रं प्रत्ययावगती पृथक्॥

एवं विज्ञातवाक्यार्थे श्रुतिलोकप्रसिद्धितः।
 श्रुतिस्तत् त्वमसीत्याह श्रोतुर्मोहापनुत्तये॥

ब्रह्मा दाशरथेर्यद्वदुक्तैवापानुदत् तमः।
 तस्य विष्णुत्वसंबोधे न यत्नान्तरमूचिवान्॥

अहंशब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि।
 सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता॥

श्रुतमात्रे न चेत् स्यात् कार्यं तत्र भवेद् ध्रुवम्।
 व्यवहारात् पुरापीष्टः सद्भावः स्वयमात्मनः॥

अशनायादिनिर्मुक्त्यै तत्काला जायते प्रमा।
 तत्त्वमस्यादिवाक्यार्थे त्रिषु कालेष्वसंशयः॥

प्रतिबन्धविहीनत्वात् स्वयं चानुभवात्मनः।
 जायेतैव प्रमा तत्र स्वात्मन्येव न संशयः॥

किं सदेवाहमस्मीति किं वान्यत् प्रतिपद्यते।
 सदेव चेदहंशब्दः सता मुख्यार्थ इष्यताम्॥

अन्यच् चेत् सदहंग्राहप्रतिपत्तिर्मृषैव सा।
 तस्मान् मुख्यग्रहे नास्ति वारणावगतेरिह॥

प्रत्ययी प्रत्ययश्चैव यदाभासौ तदर्थता।
 तयोरचितिमत्त्वाच् च चैतन्ये कल्प्यते फलम्॥

कूटस्थेऽपि फलं योग्यं राजनीव जयादिकम्।
 तदनात्मत्वहेतुभ्यां क्रियायाः प्रत्ययस्य च॥

आदर्शस्तु यदाभासो मुखाकारः स एव सः।
 यथैवं प्रत्ययादर्शो यदाभासस्तदा ह्यहम्॥

इत्येवं प्रतिपत्तिः स्यात् सदस्मीति च नान्यथा।
 तत् त्वमित्युपदेशोऽपि द्वाराभावादनर्थकः॥

श्रोतुः स्यादुपदेशश्चेदर्थवत्त्वं तथा भवेत्।
 अध्यक्षस्य न चेदिष्टं श्रोतृत्वं कस्य तद् भवेत्॥

अध्यक्षस्य समीपे स्याद् बुद्धेरेवेति चेन् मतम्।
 न तत्कृतोपकारोऽस्ति काष्ठाद् यद्वन् न कल्प्यते॥

बुद्धौ चेत् तत्कृतः कश्चिन् नन्वेवं परिणामिता।
 आभासेऽपि च को दोषः सति श्रुत्याद्यनुग्रहे॥

आभासे परिणामश्चेन् न रज्ज्वादिनिभत्ववत्।
 सर्पादेश्च तथावोचमादर्शे च मुखत्ववत्॥

नात्माभासत्वसिद्धिश्चेदात्मनो ग्रहणात् पृथक्।
 मुखादेस्तु पृथक्सिद्धिरिह त्वन्योन्यसंश्रयः॥

अध्यक्षस्य पृथक्सिद्धावाभासस्य तदीयता।
 आभासस्य तदीयत्वे ह्यध्यक्षव्यतिरिक्तता॥

नैवं स्वप्ने पृथक्सिद्धेः प्रत्ययस्य दृशेस्तथा।
 रथादेस्तत्र शून्यत्वात् प्रत्ययस्यात्मना ग्रहः॥

अवगत्या हि संव्याप्तः प्रत्ययो विषयाकृतिः।
 जायते स यदाकारः स बाह्यो विषयो मतः॥

कर्मेप्सिततमत्वात् स तद्वान् कार्ये नियुज्यते।
 आकारो यत्र चार्प्येत करणं तदिहोच्यते॥

यदाभासेन संव्याप्तः स ज्ञातेति निगद्यते।
 त्रयमेतद् विविच्यात्र यो जानाति स आत्मवित्॥

सम्यक्संशयमिथ्योक्ताः प्रत्यया व्यभिचारिणः।
 एकैवावगतिस्तेषु भेदस्तु प्रत्ययार्पितः॥

आधिभेदाद् यथा भेदो मणेरवगतेस्तथा।
 अशुद्धिः परिणामश्च सर्वं प्रत्ययसंश्रयात्॥

प्रथनं ग्रहणं सिद्धिः प्रत्ययानामिहान्यतः।
 आपरोक्ष्यात् तदेवोक्तमनुमानं प्रदीपवत्॥

किमज्ञं ग्राहयेत् कश्चित् प्रमाणेन तु केनचित्।
 विनैव तु प्रमाणेन निवृत्त्यान्यस्य शेषतः॥

शब्देनैव प्रमाणेन निवृत्तिश्चेदिहोच्यते।
 अध्यक्षस्याप्रसिद्धत्वाच्छून्यतैव प्रसज्यते॥

चेतनस्त्वं कथं देह इति चेन् नाप्रसिद्धितः।
 चेतनस्यान्यतासिद्धावेवं स्यादन्यहानतः॥

अध्यक्षः स्वयमस्त्येव चेतनस्यापरोक्षतः।
 तुल्य एवं प्रबोधः स्यादज्ञस्यासत्त्ववादिना॥

अहमज्ञासिषं चेदमिति लोकस्मृतेरिह।
 करणं कर्म कर्ता च सिद्धास्त्वेकक्षणे किल॥

प्रामाण्येऽपि स्मृतेः शैघ्र्याद् यौगपद्यं विभाव्यते।
 क्रमेण ग्रहणं पूर्वं स्मृतेः पश्चात् तथैव च॥

अज्ञासिषमिदं मां चेत्यपेक्षा जायते धुर्वम्।
 विशेषोऽपेक्ष्यते यत्र तत्र नैवैककालता॥

आत्मनो ग्रहणे चापि त्रयाणामिह संभवात्।
 आत्मन्यासक्तकर्तृत्वं न स्यात् करणकर्मणः॥

व्याप्तुमिष्टं च यत् करतुः क्रियया कर्म तत् स्मृतम्।
 अतो हि कर्तृतन्त्रत्वं तस्येष्टं नान्यतन्त्रता।

शब्दाद् वानुमितेर्वापि प्रमाणाद् वा ततोऽन्यतः।
 सिद्दिः सर्वपदार्थानां स्यादज्ञं प्रति नान्यथा॥

अध्यक्षस्यापि सिद्धिः स्यात् प्रमाणेन विनैव वा।
 विना स्वस्य प्रसिद्धिस्तु नाज्ञं प्रत्युपयुज्यते॥

तस्यैवाज्ञत्वमिष्टं चेज् ज्ञातत्वेऽन्या मितिर्भवेत्।
 अन्यस्यैवाज्ञतायां च तद्विज्ञाने ध्रुवा भवेत्॥

ज्ञातता स्वामलाभो वा सिद्धिः स्यादन्यदेव वा।
 ज्ञातत्वेऽनन्तरक्तौ त्वं पक्षौ संस्मर्तुमर्हसि॥

सिद्धिः स्यात् स्वात्मलाभश्चेद् यत्नस्तत्र निरर्थकः।
 सर्वलोकप्रसिद्धत्वात् स्वहेतुभ्यस्तु वस्तुनः॥

ज्ञानज्ञेयादिवादेऽतः सिद्धिर्ज्ञातत्वमुच्यते।
 अध्यक्षाध्यक्ष्ययोः सिद्डिर्ज्ञेयत्वं नात्मलाभता॥

स्पष्टत्वं कर्मकर्त्रादेः सिद्धता यदि कल्प्यते।
 स्पष्टतास्पष्टते स्यातामन्यस्यैव न चात्मनः॥

अद्रष्टुर्नैव चान्धस्य स्पष्टीभावो घटस्य तु।
 कर्त्रादेः स्पष्टतेष्टा चेद् द्रष्टृताध्यक्षकर्तृका॥

अनुभूतेः किमन्यस्मिन् स्यात् तवापेक्षया वद।
 अनुभवितरीष्टा स्यात् सोऽप्यनुभूतिरेव नः॥
 
'अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः।
 ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते'॥
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते।
 सत्त्वं नाशित्वमस्याश्चेत् सकर्तृत्वं थतेष्यताम्।

न कश्चिच् चेष्यते धर्म इति चेत् पक्षहानता॥
 
नन्वस्तित्वादयो धर्मा नास्तित्वादिनिवृत्तयः।
 न भूतेस्तर्हि नाशित्वं स्वालक्षण्यं हि ते॥

स्वलक्षणावधिर्नाशो नाशोऽनाशनिवृत्तिता।
 अगोरसत्त्वं गोत्वं ते न तु तद् गोः स्वलक्षणम्॥

क्षणवाच्योऽपि योऽर्थः स्यात् सोऽप्यन्याभाव एव ते।
 भेदाभावेऽप्यभावस्य भेदो नामभिरिष्यते॥

नामभेदैरनेकत्वमेकस्य स्यात् कथं तव।
 अपोहो यदि भिन्नानां वृत्तिस्तस्य कथं गवि॥

नाभावा भेदकाः सर्वे विशेषा वा कदाचन।
 नामजात्यादयो यद्वत् संविदस्तेऽविशेषतः॥

प्रत्यक्षमनुमानं वा व्यवहारे यदीच्छसि।
 द्रियादारकभेदैस्तदभ्युपेयं ध्रुवं भवेत्॥

तस्मान् नीलं तथा पीतं घटादिर्वा विशेषणम्।
 संविदस्तदुपेत्यं स्याद् येन चाप्यनुभूयते॥

रूपादीनां यथान्यः स्याद् ग्राह्यत्वाद् ग्राहकस्तथा।
 प्रत्ययसय थतान्यः स्याद् व्यञ्जकत्वाच् च दीपवत्॥

अध्यक्षस्य दृशेः कीदृक् संबन्धः संभविष्यति।
 अध्यकृयेण तु दृश्येन मुक्त्वान्यो द्रष्टृदृश्यताम्॥

अध्यक्षेण कृता दृष्टिर्दृश्यं व्याप्नोत्यतापि वा।
 नित्याध्यक्षकृतः दश्चिदुपकारो भवेद् धियाम्॥

स चोक्तस्तन्निभत्वं प्राक् संव्याप्तिश्च घटादिषु।
 यथालोकादिसंव्याप्तिर्व्यञ्जकत्वाद् ध्यस्थता॥

आलोकस्थो घटो यद्वद् बुद्ध्यारूढो भवेत् तथा।
 धीव्याप्तिः स्याद् घटारोहो धियो व्याप्तौ कर्मो भवेत्॥

पूर्वं स्यात् प्रत्ययव्याप्तिस्ततोऽनुग्रह आत्मनः।
 कृत्स्नाध्यक्षस्य सोऽयुक्तः कालाकाशादिवत् क्रमः॥

विषयग्रहणं यस्य कारणापेक्षया भवेत्।
 सत्येव ग्राह्यशेषे च परिणामी स चित्तवत्॥

अध्यक्षोऽहमिति ज्ञानं बुद्धेरेव विनिश्चयः।
 नाध्यक्षस्याविशेषत्वान् न तस्यास्ति परो यतः॥

कर्त्रा चेदहमित्येवमनुभूयेत मुक्तता।
 सुखदुःखविनिर्मोको नाहंकर्तरि युज्यते॥

देहादावभिमानोत्थो दुःखीति प्रत्ययो ध्रुवम्।
 कुण्डलिप्रत्ययो यद्वत् प्रत्यगात्माभिमानिना॥

बाध्यते प्रत्ययेनेह विवेकेनाविवेकवान्।
 विपर्ययेऽसदन्तं स्यात् प्रमाणस्याप्रमाणतः॥

दाहच्छेदविनाशेषु दुःखित्वं नान्यथात्मनः।
 नैव ह्यन्यस दाहादावन्यो दुःखी भवेत् क्वचित्॥

अस्पर्शत्वाददेहत्वान् नाहं दाह्यो यतः सदा।
 तस्मान् मिथ्याभिमानोत्थं मृते पुत्रे मृतिर्यथा॥

कुण्डल्यहमिति ह्येतद् बाध्येतैव विवेकिना।
 दुःखीति प्रत्ययस्तद्वत् केवलाहंधिया सदा॥

सिद्धे दुःखित्व इष्टं स्यात् तच्छकित्वं सदात्मनः।
 मिथ्याभिमानतो दुःखी तेनार्थापादनक्षयः॥

अस्पर्शोऽपि यथा स्पर्शमचलश्चलनादि च।
 अविवेकात् तथा दुःखं मानसं चात्मनीक्षते॥

विवेकात्मधिया दुःखं नुद्यते चल्चआदिवत्।
 अविवेकस्वभावेन नमो गच्छत्यनिच्छतः॥

तदानुदृश्यते दु; खं नैश्चल्ये नैव तस्य तत्।
 प्रत्यगात्मनि तस्मात् तद् दु; खं नैवोपपद्यते॥

त्वंसतोर्तुल्यनीडतआन् नीलाश्ववदिदं भवेत्।
 निर्दुःखवाचिना योगात् त्वंशब्दस्य तदर्थता॥

प्रत्यगात्माभिहानेन तच्छब्दस्य युतेस्तथा।
 दशमस्त्वमसीत्येवं वाक्यं स्यात् प्रत्यफ़ात्मनि॥

स्वार्थस्य ह्यप्रहाणेन विशिष्टार्थसमर्पकौ।
 प्रत्यगात्मावगत्यन्तौ नान्योऽर्थोऽर्थाद् विरोध्यतः॥

नवबुद्ध्यपहाराद् धि स्वात्मानं दशपूर१अम्।
 असश्यञ् ज्ञातुमेवेच्छेत् स्वमात्मानं जनस्तथा॥

अविद्याबद्धचक्षुष्ट्वात् कामापहृतधीः सदा।
 विविक्तं दृशिमात्मानं नेक्षते दशमं यथा॥

दशमस्त्वमसीत्येवं तत्त्वमस्यादिवाक्यतः।
 स्वमात्मानं विजानाति कृत्स्नान्तःकरणेक्षणम्॥

इदं पूर्वमिदं पश्चात् पदं वाद्ये भवेदिति।
 नियमो नैव वेदेऽस्ति पदसांगत्यमर्थतः॥

वाक्ये हि श्रूयमाणानां पदानामर्थसंस्मृतिः।
 अन्वयव्यतिरेकाभ्यां ततो वाक्यार्थबोधनम्॥

यदा नित्येषु वाक्येषु पदार्थस्तु विविच्यते।
 वाक्यार्थज्ञानसंक्रान्त्यै तदा प्रश्नो न युज्यते॥

अन्वयव्यतिरेकोक्तिः पदार्थस्मरणाय तु।
 स्मृत्यभावे न वाक्यार्थो ज्ञातुं शक्यो हि केनचित्॥

तत्त्वमस्यादिवाक्येषु त्वंपदार्थाविवेकतः।
 व्यज्यते नैव वाक्यार्थो नित्यमुक्तोऽहमित्यतः॥

अन्वयव्यतिरेकोक्तिस्तद्विवेकाय नान्यथा।
 त्वंपदार्थविवेके हि पाणावर्पितविल्ववत्॥

वाक्यार्थो व्यज्यते चैवं केवलोऽहंपदार्थतः।
 दुःखीत्येतदपोहेन प्रत्यगात्मविनिश्चयात्॥

तत्रैवं संभवत्यर्थे श्रुतहानाश्रुतार्थधिः।
 नैवं कल्पयितुं युक्ता पदवाक्यार्थकोविदैः॥

प्रत्यक्षादीनि बाधेरन् कृष्णलादिषु पाकवत्।
 अक्षजादिनिभैरेतैः कथं स्याद् वाक्यबाधनम्॥

दुःख्यस्मीति सति ज्ञाने निर्दुःखीति न जायते।
 प्रत्यक्षादिनिभत्वेऽपि वाक्यान् न व्यभिचारतः॥

स्वप्ने दुःख्यहमद्यासं दाहच्छेदादिहेतुतः।
 तत्कालभाविभिर्वाक्यैर्न बाधः क्रियते यदि॥

समाप्तेस्तर्हि दुःखस्य प्राक् च तद्बाध इष्यताम्।
 न हि दुःखस्य संतानो भ्रान्तेर्वा दृश्यते क्वचित्॥

प्रत्यगात्मन आत्मत्वं दुःख्यस्मीत्यस्य बाधया।
 दशमं नवमस्येव वेद चेदविरुद्धता॥

नित्यमुक्तत्वविज्ञानं वाक्याद् भवति नान्यतः।
 वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम्॥

अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम्।
 एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते॥

सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत्।
 दशमस्त्वमसीत्यस्माद् यथैवं प्रत्यगात्मनि॥

प्रबोधेन यथा स्वाप्नं सर्वं दुःखं निवर्तते।
 प्रत्यगात्मधिया तद्वद् दुःखित्वं सर्वदात्मनः॥

कृष्णलादौ प्रमाजन्म तदन्यार्थामृदुत्वतः।
 तत्त्वमस्यादिवाक्येषु न त्वेवमविरोधतः॥

वाक्ये तत् त्वमसीत्यस्मिञ् ज्ञातार्थं तदसिद्वयम्।
 त्वमर्थस्मृत्यसाहाय्याद् वाक्यं नोत्पादयेत् प्रमाम्॥

तत्त्वमोस्तुल्यनीडार्थमसीत्येतत् पदं भवेत्।
 तच्छब्दः प्रत्यगात्मार्थस्तच्छब्दार्थस्त्वमस्तथा॥

दुःखित्वाप्रत्यगात्मत्वं वारयेतामुभावपि।
 एवं च नेतिनेत्यर्थं गमयेतां परस्परम्॥

एवं तत् त्वमसीत्यस्य गम्यमाने फले कथम्।
 अप्रमाणत्वमस्योद्त्वा क्रियापेक्ष्त्वमुच्यते॥

तस्मादाद्यन्तमध्येषु कुर्वित्येतद् विरोध्यतः।
 न कल्प्यमश्रुतत्वाच् च श्रुतत्यागोऽप्यनर्थकः॥

यथानुभूयते तृप्तिर्भुजेर्वाक्यान् न गम्यते।
 वाद्यस्य विधृतिस्तद्वद् गोशकृत्पायसिक्रिय॥

सत्यमेवमनात्मार्थे वाक्यात् पारोक्षबोधनम्।
 प्रत्यगात्मनि न त्वेवं संह्याप्राप्तिवदध्रुवम्॥

स्वसंवेद्यत्वपर्यायः स्वप्रमाणक इष्यताम्।
 निवृत्तावह्मः सिद्धः स्वात्मनोऽनुभवश्च नः॥

बुद्धीनां विषयो दुःखं ता यस्य विषया मताः।
 कुतोऽस्य दुःखसंबन्धो दृशेः स्यात् प्रत्यगात्मनः॥

दृशिरेवानुभूयेत स्वेनैवानुभवात्मना।
 तदाभासतया जन्म धियोऽस्यान्भवः स्मृतः॥

अशनायादिनिर्मुक्तः सिद्धो मोक्षस्त्वमेव सः।
 श्रोतव्यादि तवेत्येतद् विरुद्धं कथमुच्यते॥

सेत्स्यतीत्येव चेत् तत् स्याच्छ्रवणादि तदा भवेत्।
 मोक्षस्यानित्यतैवं स्याद् विरोध्येवान्यथा वचः॥

श्रोतृश्रोतव्ययोर्भेदो यदीष्तः स्याद् भवेदिदम्।
 इष्टार्थकोप एवं स्यान् न युक्तं सर्वथा वचः॥

सिद्धो मोक्षोऽहमित्येवं ज्ञात्वात्मानं भवेद् यदि।
 चिकीषुर्यः स मूढात्मा शास्त्रं चोद्घाटयत्यपि॥

न हि सिद्धस्य कर्तव्यं सकार्यस्य न सिद्धता।
 उभयालम्बनं कुर्वन्नात्मानं वञ्चयत्यसौ॥

सिद्धो मोक्षस्त्वमित्येतद् वस्तुमात्रं प्रदर्श्यते।
 श्रोतुस्तथात्वविज्ञाने प्रवृत्तिः स्यात् कथं त्विति॥

कर्ता दुःख्यहमस्मीति प्रत्यक्षेनानुभूयते।
 कर्ता दुःखी च मा भूवमिति यत्नो भवेत् ततः॥

तद्विज्ञानाय युक्त्यादि कर्तव्यं श्रुतिरब्रवीत्।
 कर्तृत्वाद्यनुवादेन सिद्धत्वानुभयाय तु॥

निर्दुःखो निष्क्रियोऽकामः सिद्धो मोक्षोऽहमित्यपि।
 गृहीत्वैवविरुद्धार्थमादध्यात् कथमेव सः॥

सकामः सक्रियोऽसिद्ध इति मेऽनुभवः कथम्।
 अतो मे विपरीतस्य तद् भवान् वक्तुमर्हति॥

इहैव घटते प्रश्नो न मुक्तत्वानुभूतये।
 प्रमानेन विरोधी यः सोऽत्रार्थः प्रश्नमर्हति॥

अहं निर्मुक्त इत्येष सदसीत्यन्यमानजः।
 प्रत्यक्षाभासजन्यत्वाद् दुःखित्वं प्रश्नमर्हति॥

पृष्टमाकाण्क्षितं वाच्यं दुःखाभावमभीप्सितम्।
 कथं हीदं निवर्तेत दुःखं सर्वात्मना मम॥

इति प्रश्नानुरूपं यद् वाच्यं दुःखनिवर्तकम्।
 श्रुतेः स्वात्मनि नाशण्का प्रमाण्ये सति विद्यते॥

तस्मादात्मविमुक्तत्वं प्रत्याययति तद्वचः।
 वक्तव्यं तु तह्तार्थं स्याद् विरोधेऽसति केनचित्॥

इतोऽन्योऽनुभवः कश्चिदात्मनो नोपपद्यते।
 अविज्ञातं विजानतां विज्ञातारमिति श्रुतेः॥

त्वंपदार्थविवेकाय संन्यासः सर्वकर्मणाम्।
  साधनत्वं व्रजत्येव शान्तो दान्तादिशासनात्॥

त्वमर्थं प्रत्यगात्मानं पश्येदात्मानमात्मनि।
 वाक्यार्थं तत आत्मानं सर्वं पश्यति केवलम्॥

सर्वमात्मेति वाक्यार्थे विज्ञातेऽस्य प्रमाणतः।
 असत्त्वे ह्यन्यमानस्य विधिस्तं योजयेत् कथम्॥

तस्माद् वाद्यार्थविज्ञानान् नोर्ध्वं कर्मविधिर्भवेत्।
 न हि ब्रह्मास्मि कर्तेति विरुद्धे भवतो धियौ॥

ब्रह्मास्मीति हि विद्येयं नैव कर्तेती बाध्यते।
 सकामो बद्ध इत्येवं प्रमाणाभासजातया॥

शास्त्राद् ब्रह्मास्मि नान्योऽहमिति बुद्धिर्भवेद् दृधा।
 यदायुक्ता तदैवं धीर्यथा देहात्मधीरिति॥

सभयादभयं प्राप्तस्तदर्थं यतते च यः।
 स पुनः सभयं गन्तुं स्वतन्त्रश्चेन् न हीच्छति॥

यथेष्टाचरणप्राप्तिः संन्यासादिविधौ कुतः।
 पदार्थाज्नानबुद्धस्य वाद्यार्थानुभवार्थिनः॥

अतः सर्वमिदं सिद्धं यत् प्रागस्माभिरीर्तम्॥
 
यो हि यस्माद् विरक्तः स्यान् नासौ तस्मै प्रवर्तते।
 लोकत्रयाद् विरक्त्वान् मुम्क्षुः किमितीहते॥
 
क्षुधया पिड्यमानोऽपि न विषं ह्यत्तुमिच्छति।
 मिष्टान्नध्वस्ततृड् जानन् नामूढस्तज् जिघत्सति॥
 
वेदान्तवाक्यपुष्पेभ्यो ज्ञानामृतमधूत्तमम्।
 उज्जहारालिवद् यो नस्तस्मै सद्गुरवे नमः॥