गच्छसि कुत्र अरी गजगामिनि । हँससि किमर्थं त्वं माम दृष्ट्वा , तिष्ठ क्षणं हे कामिनि।
मार्गे चलसि सर्वतः पश्यसि , हे घनविद्युद्दामिनि। खण्ड-खण्डितं पण्डित हृदयं मम मन-अन्तर्यामिनि।। गच्छसि कुत्र अरी गजगामिनि ।
स्वात्मानं पश्यन्त्यादर्शे , लज्जास्मित-गौरांगिनि। अधोमुखी विलोकयसि धरणीं , निजस्वरूप-अभिमानिनि।। च्छसि कुत्र अरी गजगामिनि ।
कथयसि कथं न किं कामयसे, हे भावी-गृहस्वामिनि। शीघ्रं कुरु हर मम परितापं , कामज्वर-अपहारिणि।। गच्छसि कुत्र अरी गजगामिनि ।
हे लघु वस्त्रे हे नयनास्त्रे , हे मम मनोविलासिनि। मा कुरु वक्र-दृष्टि-प्रक्षेपं भो भो मारुति-वाहिनि।। गच्छसि कुत्र अरी गजगामिनि ।