Last modified on 25 जून 2014, at 20:12

तैत्तिरीयोपनिषत् / ब्रह्मानन्दवल्ली / संस्कृतम्‌

ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै।
ॐ शान्तिः शान्तिः शान्तिः॥

ॐ ब्रह्मविदाप्नोति परम्। तदेषाऽभ्युक्ता।
सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायां परमे व्योमन्।
सोऽश्नुते सर्वान् कामान् सह। ब्रह्मणा विपश्चितेति॥
तस्माद्वा एतस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः।
वायोरग्निः। अग्नेरापः। अद्भ्यः पृथिवी।
पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्। अन्नात्पुरुषः।
स वा एष पुरुषोऽन्न्नरसमयः।
तस्येदमेव शिरः।
अयं दक्षिणः पक्षः। अयमुत्तरः पक्षः।
अयमात्मा। इदं पुच्छं प्रतिष्ठा।
तदप्येष श्लोको भवति॥१॥

इति प्रथमोऽनुवाकः॥

अन्नाद्वै प्रजाः प्रजायन्ते।
याः काश्च पृथिवीँ श्रिताः।
अथो अन्नेनैव जीवन्ति। अथैनदपि यन्त्यन्ततः।
अन्नँ हि भूतानां ज्येष्ठम्। तस्मात् सर्वौषधमुच्यते।
सर्वं वै तेऽन्नमाप्नुवन्ति। येऽन्नं ब्रह्मोपासते।
अन्नँ हि भूतानां ज्येष्ठम्। तस्मात् सर्वौषधमुच्यते।
अन्नाद् भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते।
अद्यतेऽत्ति च भूतानि। तस्मादन्नं तदुच्यत इति।
तस्माद्वा एतस्मादन्नरसमयात्। अन्योऽन्तर आत्मा प्राणमयः।
तेनैष पूर्णः। स वा एष पुरुषविध एव।
तस्य पुरुषविधताम्। अन्वयं पुरुषविधः।
तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः।
अपान उत्तरः पक्षः। आकाश आत्मा।
पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति॥१॥

इति द्वितीयोऽनुवाकः॥

प्राणं देवा अनु प्राणन्ति। मनुष्याः पशवश्च ये।
प्राणो हि भूतानामायुः। तस्मात् सर्वायुषमुच्यते।
सर्वमेव त आयुर्यन्ति। ये प्राणं ब्रह्मोपासते।
प्राणो हि भूतानामायुः। तस्मात् सर्वायुषमुच्यत इति।
तस्यैष एव शारीर आत्मा। यः पूर्वस्य।
तस्माद्वा एतस्मात् प्राणमयात्। अन्योऽन्तर आत्मा मनोमयः।
तेनैष पूर्णः। स वा एष पुरुषविध एव।
तस्य पुरुषविधताम्। अन्वयं पुरुषविधः।
तस्य यजुरेव शिरः। ऋग्दक्षिणः पक्षः। सामोत्तरः पक्षः।
आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा।
तदप्येष श्लोको भवति॥१॥

इति तृतीयोऽनुवाकः॥

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह।
आनन्दं ब्रह्मणो विद्वान्। न बिभेति कदाचनेति।
तस्यैष एव शारीर आत्मा। यः पूर्वस्य।
तस्माद्वा एतस्मान्मनोमयात्। अन्योऽन्तर आत्मा विज्ञानमयः।
तेनैष पूर्णः। स वा एष पुरुषविध एव।
तस्य पुरुषविधताम्।
अन्वयं पुरुषविधः। तस्य श्रद्धैव शिरः।
ऋतं दक्षिणः पक्षः।
सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा।
तदप्येष श्लोको भवति॥१॥

इति चतुर्थोऽनुवाकः॥

विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च।
विज्ञानं देवाः सर्वे।
ब्रह्म ज्येष्ठमुपासते। विज्ञानं ब्रह्म चेद्वेद।
तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनो हित्वा।
सर्वान्कामान्समश्नुत इति। तस्यैष एव शारीर आत्मा।
यः पूर्वस्य। तस्माद्वा एतस्माद्विज्ञानमयात्।
अन्योऽन्तर आत्माऽऽनन्दमयः। तेनैष पूर्णः।
स वा एष पुरुषविध एव। तस्य पुरुषविधताम्।
अन्वयं पुरुषविधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः।
प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा।
तदप्येष श्लोको भवति॥१॥

इति पञ्चमोऽनुवाकः॥

असन्नेव स भवति। असद्ब्रह्मेति वेद चेत्।
अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति।
तस्यैष एव शारीर आत्मा। यः पूर्वस्य।
अथातोऽनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य।
कश्चन गच्छती।
आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता। सोऽकामयत।
बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा।
इदँ सर्वमसृजत। यदिदं किञ्च। तत्सृष्ट्वा।
तदेवानुप्राविशत्। तदनुप्रविश्य। सच्च त्यच्चाभवत्।
निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च।
विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत्।
यदिदं किञ्च। तत्सत्यमित्याचक्षते।
तदप्येष श्लोको भवति॥१॥

इति षष्ठोऽनुवाकः॥

असद्वा इदमग्र आसीत्। ततो वै सदजायत।
तदात्मानँ स्वयमकुरुत।
तस्मात्तत्सुकृतमुच्यत इति।
यद्वै तत् सुकृतम्। रसो वै सः।
रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति। को ह्येवान्यात्कः
प्राण्यात्। यदेष आकाश आनन्दो न स्यात्।
एष ह्येवाऽऽनन्दयाति।
यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति।
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते।
अथ तस्य भयं भवति। तत्वेव भयं विदुषोऽमन्वानस्य।
तदप्येष श्लोको भवति॥१॥

इति सप्तमोऽनुवाकः॥

भीषाऽस्माद्वातः पवते। भीषोदेति सूर्यः।
भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम इति।
सैषाऽऽनन्दस्य मीमाँसा भवति।
युवा स्यात्साधुयुवाऽध्यायकः।
आशिष्ठो दृढिष्ठो बलिष्ठः।
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्।
स एको मानुष आनन्दः। ते ये शतं मानुषा आनन्दाः॥१॥
स एको मनुष्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य।
ते ये शतं मनुष्यगन्धर्वाणामानन्दाः।
स एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य।
ते ये शतं देवगन्धर्वाणामानन्दाः।
स एकः पितृणां चिरलोकलोकानामानन्दः।
श्रोत्रियस्य चाकामहतस्य।
ते ये शतं पितृणां चिरलोकलोकानामानन्दाः।
स एक आजानजानां देवानामानन्दः॥२॥
श्रोत्रियस्य चाकामहतस्य।
ते ये शतं आजानजानां देवानामानन्दाः।
स एकः कर्मदेवानां देवानामानन्दः।
ये कर्मणा देवानपियन्ति। श्रोत्रियस्य चाकामहतस्य।
ते ये शतं कर्मदेवानां देवानामानन्दाः।
स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य।
ते ये शतं देवानामानन्दाः। स एक इन्द्रस्याऽऽनन्दः॥३॥
श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्याऽऽनन्दाः।
स एको बृहस्पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य।
ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः।
श्रोत्रियस्य चाकामहतस्य।
ते ये शतं प्रजापतेरानन्दाः।
स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य॥ ४॥
स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः।
स य एवंवित्। अस्माल्लोकात्प्रेत्य।
एतमन्नमयमात्मानमुपसङ्क्रामति।
एतं प्राणमयमात्मानमुपसङ्क्रामति।
एतं मनोमयमात्मानमुपसङ्क्रामति।
एतं विज्ञानमयमात्मानमुपसङ्क्रामति।
एतमानन्दमयमात्मानमुपसङ्क्रामति।
तदप्येष श्लोको भवति॥५॥

इत्यष्टमोऽनुवाकः॥

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह।
आनन्दं ब्रह्मणो विद्वान्।
न बिभेति कुतश्चनेति।
एतँ ह वाव न तपति।
किमहँ साधु नाकरवम्। किमहं पापमकरवमिति।
स य एवं विद्वानेते आत्मानँ स्पृणुते।
उभे ह्येवैष एते आत्मानँ स्पृणुते। य एवं वेद।
इत्युपनिषत्॥१॥ इति नवमोऽनुवाकः॥
 
॥इति ब्रह्मानन्दवल्ली समाप्ता॥