प्रस्तरस्थले नगरे / राधावल्लभः त्रिपाठी

पान्थ, नात्र स्रस्तरम् (शास्त्रम्) अस्ति मनाक्
प्रस्तरस्थले ग्रामे (गाथासप्तशती- 873)
 
शास्त्राणां शय्यासु निविश्य
काव्यानां समस्तकेषु शयिताः
जना अत्र न दृश्यन्ते
प्रस्तरस्थले नगरे
सर्वं प्रस्तरायितम्।

प्रस्तरस्य उद्यानानि
प्रस्तरस्य प्रासादाः
प्रस्तरशरीराणि
प्रस्तरस्य मनांसि

प्रस्तर इव अहङ्कारः
यत्र गम्यते तत्र प्रस्तराः
प्रतिमानिर्माणाय स्थापिताः
प्रस्तराणां निचयाः
प्रस्तराणां प्रतिमाः
प्रस्तराणां समाधयः
प्रस्तरायितानि मनांसि
प्रस्तरायिता बुद्धिः
प्रस्तरनिचये
क्रन्दन्ती पृथिवी।
पृथिव्याः तनौ
प्रस्तरान् क्षिपन्तो जनाः।
या धरित्री
अतिविकटविस्तृतपर्वतशिखरोत्तुङ्गभूमीरुहाणां भारेण
न क्लिन्ना
तस्याः कृते कथमत्र एकैकः प्रस्तरो भारायते।
हे मातर्भूमे,
प्रस्तरैस्तव कोमला तनुः
क्षतिं च विक्षतिं च नीताS स्माभिः
एतस्य पापस्य कृते मर्षय नः
इति भावनया अपराधक्षमापणस्तोत्रं
ये विरचयेयुस्ते कवयोS पि सम्प्रति न सन्ति।
अस्माकं तु
प्रस्तरायिताः
शब्दा अपि ।

इस पृष्ठ को बेहतर बनाने में मदद करें!

Keep track of this page and all changes to it.