Last modified on 20 जून 2014, at 14:06

बृहज्जाबालोपनिषत् / तृतीयं ब्राह्मणम् / संस्कृतम्‌

अथ भुसुण्डः कालाग्निरुद्रं भस्मस्नानविधिं ब्रूहीति होवाचाथ प्रणवेन विमृज्याथ सप्तप्रणवेनाभिमन्त्रितमागमेन तु तेनैव दिग्बन्धनं कारयेत्पुनरपि तेनास्त्रमन्त्रेणाङ्गानि मूर्धादीन्युद्धूलयेन्मलस्नानमिदमीशानाद्यैः पञ्चभिर्मन्त्रैस्तनुं क्रमाद्धूलयेत्।
ईशानेति शिरोदेशं मुखं तत्पुरुषेण तु।
ऊरुदेशमघोरेण गुह्यकं वामदेवतः।
सद्योजातेन वै पादो सर्वाङ्गं प्रणवेन तु।
आपादतलमस्तकं सर्वाङ्गं तत उद्धूलाचम्य वसनं धौतं श्वेतं प्रधारयेद्विधिस्नानमिदम्॥
तत्र श्लोका भवन्ति।

भस्ममुष्टिं समादाय संहितामन्त्रमन्त्रिताम्।
मस्तकात्पादपर्यन्तं मलस्नानं पुरोदितम्॥१॥

तन्मन्त्रेणैव कर्तव्यं विधिस्नानं समाचरेत्।
ईशाने पञ्चधा भस्म विकिरेन्मूर्ध्नि यत्रतः॥२॥

मुखे चतुर्थवक्त्रेण अघोरेणाष्टधा हृदि।
वामेन गुह्यदेशे तु त्रिदशस्थानभेदतः॥३॥

अष्टावन्तेन साध्येन पादावद्धूल्य यत्रतः।
सर्वाङ्गोद्धूलनं कार्यं राजन्यस्य यथाविधि॥४॥

मुखं विना च तत्सर्वमुद्धूल्य क्रमयोगतः।
सन्ध्याद्वये निशीथे च तथा पूर्वावसानयोः॥५॥

सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम्।
स्त्रियं नपुंसकं गृध्रं बिडालं बकमूषिकम्॥६॥

स्पृष्ट्वा तथाविधानन्यान्भस्मस्नानं समाचरेत्।
देवाग्निगुरुवृद्धानां समीपेऽन्त्यजदर्शने॥७॥

अशुद्धभूतले मार्गे कुर्यानोद्धूलनं व्रती।
शङ्खतोयेन मूलेन भस्मना मिश्रणं भवेत्॥८॥

योजितं चन्दनेनैव वारिणा भस्मसंयुतम्।
चन्दनेन समालिम्पेज्ज्ञानदं चूर्णमेव तत्॥९॥

मध्याह्नात्प्राग्जलैर्युक्तं तोयं तदनुवर्जयेत्॥
अथ भुसुण्डो भगवन्तं कालाग्निरुद्रं त्रिपुण्ड्रविधिं पप्रच्छ॥
तत्रैते श्लोका भवन्ति।

त्रिपुण्ड्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम्।
मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः॥१०॥

अनामामध्यमाङ्गुष्ठैरथवा स्यात्त्रिपुण्ड्रकम्।
उद्धूलयेन्मुखं विप्रः क्षत्रियस्तच्छिरोदिनम्॥११॥

द्वात्रिंशस्थानके चार्धं षोडशस्थानकेऽपि वा।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत्॥१२॥

उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोस्तथा।
नासावक्रे गले चैवमंसद्वयमतः परम्॥१३॥

कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः।
नाभौ गुह्यद्वये चैवमूर्वोः स्फिग्बिम्बजानुनी॥१४॥

जङ्घाद्वये च पादौ च द्वात्रिंशत्स्थानमुत्तमम्।
अष्टमूर्त्यष्टविद्येशान्दिक्पालान्वसुभिः सह॥१५॥

धरो ध्रुवश्च सोमश्च कृपश्चैवानिलोऽनलः।
प्रत्यूपश्च प्रभासश्च वसवोऽष्टावितीरिताः॥१६॥

एतेषां नाममन्त्रेण त्रिपुण्ड्रान्धारयेद्बुधः।
विदध्यात्षोडशस्थाने त्रिपुण्ड्रं तु समाहितः॥१७॥

शीर्षके च ललाटे च कर्णे कण्ठेंऽसकद्वये।
कूर्परे मणिबन्धे च हृदये नाभिपार्श्वयोः॥१८॥

पृष्ठे चैकं प्रतिस्थानं जपेत्तत्राधिदेवताः।
शिवं शक्तिं च सादाख्यमीशं विद्याख्यमेव च॥१९॥

वामादिनवशक्तीश्च एताः षोडश देवताः।
नासत्यो दस्रकश्चैव अश्विनौ द्वौ समीरितौ॥२०॥

अथवा मूर्ध्न्यलीके च कर्णयोः श्वसने तथा।
बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा॥२१॥

जानुद्वये च पदयोः पृष्ठभागे च षोडश।
शिवश्चेन्द्रश्च रुद्रार्कौ विघ्नेशो विष्णुरेव च॥२२॥

श्रीश्चैव हृदयेशश्च तथा नाभौ प्रजापतिः।
नागश्च नागकन्याश्च उभे च ऋषिकन्यके॥२३॥

पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि च स्थिताः।
एवं वा षोडशस्थानमष्टस्थानम्थोच्यते॥२४॥

गुरुस्थानं ललाटं च कर्णद्वयमनन्तरम्।
असयुग्मं च हृदयं नाभिरित्यष्टमं भवेत्॥२५॥

ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः।
अथवा मस्तकं बाहू हृदयं नाभिरेव च॥२६॥

पञ्चस्थानान्यमून्याहुर्भस्मतत्त्वविदो जनाः।
यथासम्भवतः कुर्याद्देशकलाद्यपेक्षया॥२७॥

उद्धूलनेऽप्यशक्तश्चेत्त्रिपुण्ड्रादीनि कारयेत्।
ललाटे हृदये नाभौ गले च मणिबन्धयोः॥२८॥

बाहुमध्ये बाहुमूले पृष्ठे चैव च शीर्षके॥

ललाटे ब्रह्मणे नमः।
 हृदये हव्यवाहनाय नमः।
 नाभौ स्कन्दाय नमः।
गले विष्णवे नमः।
मध्ये प्रभञ्जनाय नमः।
मणिबन्धे वसुभ्यो नमः।
पृष्ठे हरये नमः।
कुकुदि शम्भवे नमः।

शिरसि परमात्मने नमः।
इत्यादिस्थानेषु त्रिपुण्ड्रं धारयेत्॥

त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं प्रभुम्।
स्मरन्नमः शिवायेति ललाटे तत्त्रिपुण्ड्रकम्॥२९॥

 कूर्पराधः पितृभ्यां तु ईशानाभ्यां तथोपरि।
 ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम्॥३०॥
स्वच्छाभ्यां नम इत्युक्त्वा धारयेत्तत्प्रकोष्ठयोः।
भीमायेति तथा पृष्ठे शिवायेति च पार्श्वयोः॥३१॥

नीलकण्ठाय शिरसि क्षिपेत्सर्वात्मने नमः।
पापं नाशयते कृत्स्नमपि जन्मान्तरार्जितम्॥३२॥

कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र धारणात्।
कर्णे तु धारणात्कर्णरोगादिकृतपातकम्॥३३॥

बाह्वोबाहुकृतं पापं वक्षःसु मनसा कृतम्।
नाभ्यां शिश्नकृतं पापं पृष्ठे गुदकृतं तथा॥३४॥

पार्श्वयोर्धारणात्पापं परस्त्र्यालिङ्गनादिकम्।
तद्भस्मधारणं कुर्यात्सर्वत्रैव त्रिपुण्ड्रकम्॥३५॥

ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम्।
गुणलोकत्रयाणां च धारणं तेन वै श्रुतम्॥३६॥