Last modified on 31 जुलाई 2015, at 16:30

मदिरा / कौशल तिवारी

केन कथितं
पीता मया मदिरा?
मया न पीता मदिरा
मदिरया पीतोऽहम्
आकण्ठम्,
तथापि
अतृप्ता सा।
मदिरालये
प्रतीक्षायां मे
पश्यति मार्गम्।
चषके स्खलति
तस्याः देहः।
मम मदे
करोति सा
अस्फुटभाषणम्।
सत्यं
मया न पीता मदिरा
मदिरया पीतोऽहम्॥