Last modified on 15 नवम्बर 2009, at 20:26

रत्नाकरो अस्ति सदनं / भारतेंदु हरिश्चंद्र

रत्नाकरो अस्ति सदनं गृहिणी च पद्मा,
किं देयमस्ति भवते जगदीश्वराय।
राधागृहीतमनसे मनसे च तुभ्यं
दत्तं मया निजमनस्तदिदं गृहाण॥