जरदष्टिं मा पृथिवी कृणोतु।
-- अथर्ववेदे (12.21)
मया सह वार्धक्यमङ्गीकुरु
सर्वोत्कृष्टं इतोSग्रे भावि
-- बायरनकवेः
कायं क्राम्यन्तीभिर्वलिभिः सह
समतलतां यान्ति यदा
चिन्तावितानवलयाः
जीवनस्य व्याघातानाम्,
यदा पचेलिमैः श्वेतिमानं भजद्भिः कैशैः सार्धं
मार्ज्यते मनसः कालुष्यसन्ततिः
मन्दायमाने नयनयोर्ज्योतिषि
यदा अन्तश्चक्षुषोरालोके
उन्मीलिता भवेत्
क्षणच्छविः
तेषां प्रस्थानपरीवर्तानाम् -
ये पृष्ठत उज्झिताः
यदा प्रत्यवभासेरन्
आसन्नानि प्रस्थानानि
यदा अक्षिलक्षीभवेत्
यद् भविष्यगर्भे निहितम् सर्वं तत्।
यदा कश्चन शिथिलैः मन्दैः पदक्षेपैः
प्रचलेद् आजीवनं सञ्चितस्य तपसः
सम्पदं करे धृत्वा
तदा विज्ञेयम् -
वृद्धः खल्वयं जातः
अभिशापो नास्ति वार्धक्यं
सहजलभ्यमपि नैव वरीवर्ति वार्धक्यम्
विगतेऽप्यायुषि
वार्धक्यमप्राप्य तिष्ठन्ति बहवः।
ऋषयो मुनयो ज्ञानिनः
कामयमाना
स्पहयन्तो वार्धक्यं
यापयन्ति जीवनम्
कामं पण्डिताः कतिपये
पुष्णन्तस्तिष्ठन्ति
विवर्णतां गतं
मिथ्या यौवनम्।
अहो दुर्भाग्यं देवानां
यत्ते वृद्धाः भवितुमशक्ताः
सस्पृहम् अवलोकयन्ति
द्युलोकात्
मर्त्यलोकस्य तान् वृद्धान्
येषां दुर्बलेषु अंसेषु
ध्रियमाणा आस्ते
इयं धरा।
यक्षाणाम् अलकाया
अतिशेरते
अस्माकम् इयं पृथिवी
यस्यां वार्धक्यभावापत्तिः
अद्यापि सम्भावना वर्तते।
अपक्वानि फलानि पच्यन्ते
त्यजन्ति वृन्तं स्वं
यौवनवृन्तं त्यक्त्वा
मधुरतरं जायते जीवनफलं
वार्धक्ये स्वीये पर्यवसाने।
वृद्धस्यौष्ठे मृत्युः
अधरे लसति चामृतम्
उभयोर्मध्ये स्मितरेखा
तस्य जीवनम्।
यावान् वृद्धो भवति नरः
तावानेव शिशूयति
मृत्युर्मातेव तमेति
तमङ्के धृत्वा जिग्मिषति
कुत्र नयसि माम्? -
बालायितो वृद्धो मृत्युमातरं पृच्छति
अनन्तस्य महास्रोतसस्तटे
शिलान्ते अवस्थितो मृत्युः
तेन परिहसति --
अपि नाम निपातयामि अधः
अपि नाम निपातयानि?
इति वृद्धं पृच्छन्।
अपि नाम जानाति मृत्युः
यत् तस्य भुजबन्धनात् स्रस्त: स वृद्धः
अधो निपतन्
यस्मिन् अनन्तगह्वरे
निमज्जेत्,
स खलु अमृतसागरः?
मृत्युं सम्मुखं दृष्ट्वा
वृद्धः स्मयते
मृत्युस्तं पुरः क्वचित् गुप्तः क्वचित् प्रकटितश्छलितं नृत्यति
तस्य नर्तनं दर्शं दर्शं वृद्धः स्मयते।
अपि नाम एतदीयस्य स्मितस्य
समग्रामप्रतिमां भव्यतां धृत्वा
वृद्धोऽयं संस्थितः स्यात् --
तासां स्वस्यैव सन्ततीनां समक्षं
यास्तं बलात् वृद्धाश्रमं प्रापयितुमत्कायन्ते?
अपि नाम तदीया इमाः सन्ततयः
अवगच्छेयुः
यत् वृद्धस्य गेहे वर्तनं
नास्ति तासां कृते अभिशापः
अपितु अमृतसम्भृतानाम् आशिषां वर्षा आस्ते?