ॐ सह नाववतु॥सह नौ भुनक्तु॥सह वीर्यं करवावहै॥तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम्।
आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत्॥१॥
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम्। आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत्॥१॥
दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम्। दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम्॥२॥
यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः। निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः॥३॥