स होवाच याज्ञ्नवल्क्यः सदेव सोम्येदमग्र आसीत्।
तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं सनातनमेकमेवाद्वितीयं ब्रह्म।
तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत्।
तत्प्रतिबिम्बितं यत्तत्साक्षिचैतन्यमासीत्।
सा पुनर्विकृतिं प्राप्य सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत्।
तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत्। स स्वाधीनमायः सर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति।
स्वस्मिन्विलीनं सकलं जगदाविर्भावयति।
प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः प्राणिकर्मक्षयात्पुनस्तिरोभावयति।
तस्मिन्नेवाखिलं विश्वं सङ्कोचितपटवद्वर्तते।
ईशाधिष्ठितावरणशक्तितो रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत्।
तत्प्रतिबिम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीत्। स महत्तत्त्वाभिमानी स्पष्टास्पष्टवपुर्भवति।
हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा स्थूलशक्तिरासीत्।
तत्प्रतिबिम्बितं यत्तद्विराटचैतन्यमासीत्।