यदालोक्या शङ्काऽऽकुलित हृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥७२॥
अमूते वक्षोजावमृत रस-माणिक्य कुतुपौ
न संदेहस्पन्दो नगपतिपताके मनसि नः ।
पिबन्तौ तौ यस्मादविदित वधू संगम रसौ
कुमारा वद्यापि द्विरद वदन क्रौञ्चदलनौ ॥७३॥
वहत्यम्बस्तम्बे रम दनुज कुम्भ प्रकृतिभिः
समारब्धां मुक्ता मणिभिरमलां हारलतिकाम् ।
कुचाभोगोबिम्बाधर रुचिभिरन्तः शबलितां
प्रतापव्या मिश्रां पुरदमयितुः कीर्तिमिव ते ॥७४॥
तवस्तन्यंमन्ये धरणिधर कन्ये हृदयतः
पयः पारावारः परिवहति सारस्वत इव ।
दयावत्यादत्तं द्रविड़ शिशुरास्वाद्य तव य-
त्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥७५॥
हरक्रोधज्वालाऽऽवलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मादचल तनये धूम लतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥७६॥
यदेतत्कालिन्दी तनुतर तरङ्गाकृति शिवे
कृशेमध्ये किंचिज्जननि तव तद्भाति सुधियाम् ।
विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिवनाभिं कुहरिणीम् ॥७७॥
स्थिरोगङ्गाऽऽवर्तः स्तनमुकुल रोमावलिलता
कलावालं कुण्डं कुसुमशर तेजो हुतभुजः ।
रतेर्लीलाऽगारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥७८॥
निसर्ग क्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नाभौ वलिषु च शनकैस्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटित तटिनी तीर तरुणा
समावस्थस्थेम्नो भवतु कुशलं शैलतनये ॥७९॥
कुचौसद्यःस्विद्यत्तट घटित कूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौकलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधानद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥८०॥
<poem>