जीवनसरसस्तीरे निपीतोऽञ्जलिना रसः।।
याऽऽसीद् बलवती तृष्णा सा वै जीर्णा शनैः शनैः।
सौन्दर्यस्य लसच्छायाऽवतीर्णा मम मानसे।
मानसे च यथा सन्ध्याऽवतरेत् सा शनैः शनैः।
आकाङ्क्षामदिरां पीत्वा कृतं बहु गतागतम्।
क्षीबता किन्त्विदानीं सा क्षीणा क्षीणा शनैः शनैः।
प्रभाता रजनी मन्ये तमश्चान्धं निवर्तते।।
अवश्यायस्य राजिः सा सम्प्रकीर्णा शनैः शनैः।
झञ्झा मन्थरतां यायात् समुच्छ्वसेत् प्रभञ्जनः।
मनोरथस्य वल्गैषा मया कृष्टा शनैः शनैः।
त्वरयाऽवरया किं स्यात् किं वा स्याद् बहुधावनैः।
शैथिल्यस्य रुचिस्तन्वी मयि कीर्णा शनैः शनैः।।
आस्थायाः क्षेपणीं धृत्वा सङ्कल्पस्योडुपे स्थितः।
दुस्तरा जीवननदी मया तीर्णा शनैः शनैः।।
यथा सर्पः स्वनिर्मोकं जीर्णं त्यक्त्वा नवं वहेत्।
हित्वा जीर्णत्वमात्मीयं नवं जाये शनैः शनैः।