शब्दालङ्कारः / राधावल्लभः त्रिपाठी

आरुह्य शब्दनिःश्रेणीम्
प्राप्नोमि तं गवाक्षं
यस्मादनन्तं विलोकयामि।
दीपकाः प्रसारयन्ति
आलोकं
किञ्चिद्दूरम्
शब्ददीपका
विधृता अधिमानसदेहलीं
विद्योतयन्ति
अन्तर्विश्वं बहिर्विश्वं
शनैः शनैस्तेषां द्युतिः प्रसरति -
अभितः, परितः, निकषा, बहुदूरम्
आभूषणानि विभूषयन्ति कायम्
शब्दा अलङ्कारायन्ते
येभ्यो लभते संसारः
संस्कारम्।

इस पृष्ठ को बेहतर बनाने में मदद करें!

Keep track of this page and all changes to it.