Last modified on 16 अगस्त 2016, at 22:49

हरिनर्तनम् / बलराम शुक्ल

कुन्दसुन्दरदन्तवन्दितमाननं ललिताधरम्
कोटिकामकदम्बकैरभिनन्दितं कलितादरम् ।
चारुचन्द्रकसञ्चितं परिवञ्चिताखिलचारुतम्
मन्मनोऽत्यधिकं हरत्यधिमानसे मम राजितम्॥
खर्विताखिलगर्वितामलसौरभं धृतमारुतं
वंशवेणुविनिद्ररन्ध्रविनिर्गलद्रससंस्तुतम् ।
इन्दुसुन्दरमिन्दुवंशधरस्य तस्य सदाननम्
मन्मनोजमयं मनस्तृषितं चकोरति सन्ततम्॥
पीतमस्ति तदम्बरं मदभीष्टवर्षुकमम्बरं
रक्तमोष्ठयुगं भवत्यनुरागिमानसरञ्जकम् ।
श्यामिकास्ति तनुच्छवौ करुणानवाम्बुधराकृतिः
कालवालभरो कुहूकलिताखिलाविलसंस्तुतिः ॥
पाण्डुजातिहितोऽप्यपाण्डुतयान्विताऽखिलविग्रहः
शृङ्खलासु धृतोद्भवोऽपि विशृङ्खलीकृतमानसः ।
कृष्णवर्णयुतेन येन वलक्षितं भुवनत्रयं
तेन चित्रचरित्रितेन सुरक्ष्यतेऽत्र जनोऽप्ययम् ॥