तरङ्ग - १ / उमानाथ शर्मा पोख्रेल
न मन्ये धन्यं मां धनमषि बहु प्राप्य भुवने ।
यतस्तन्नो शान्तयै विविधभयदं प्रत्युत जने ।।
क्षितौ कस्मिन् बस्तुन्यभिरुचिरुपेता सुखयति ।
इति ध्यायं-ध्यायं किमपि न तथेत्यस्मि चकित ।।११।।
यथेच्छं ज्ञानं स्याभ्दवतु बहुमानोऽपि परितः ।
स्फुरेदग्रे सद्योऽभिलषितमनासाद्यमपि मे ।।
ततः स्यादानन्दो नियत इति नाहंतु कलये ।
स्मरन्नायुर्विद्युच्चपलगति तच्चापि निखिलम् ।।२।।
सुता दारा श्वारा अनुचरवरा गोहयगजाः ।
भवेयुर्मत्तन्त्राः सतत मनुकूलव्यवसिताः ।।
ततः शान्तिः स्याच्चेत् तदनुभविना मत्रमविनाम् ।
अवस्था मालोक्य स्थगित मिव चित्तं श्वसिति मे ।।३।।
महायागान् कृत्वा सुकृतबलतः शक्रपदवीम् ।
उपार्ज्य स्वर्गीयं सुखमनुभवन्नक्षयमपि ।।
कृतार्थाऽहं न स्याँ न खलु सुखभोगेन मनसो-
भवेद्वेगो न्यूनो न च भवति तृप्तिर्हितकरी ।।४।।
कथं शान्ति र्लभ्या ध्रुवसुखकर किञ्च भुवने ।
विद्यौ कस्मिन् नित्यश्रम उचितलाभं जनयति ।।
फलं किञ्चोत्पत्तेरिति किमपि जाने नही गुरो ! ।
सदा दग्धस्यैवं हृदयं-दहनं मे प्रशमय ।।५।।