भवनस्य छदौ वाटिका / राधावल्लभः त्रिपाठी
अतिलघुकं गृहम्,
तदुपरि लघु पटलम्
जलमपि अल्पम्
अस्मिन् अल्पीयसि सर्वस्मिन्
समावेशं यातो अल्पीयान् अनन्तः।
समुद्गकेषु करण्डेषु च पादपा रोपिताः
छदौ नन्दनकाननस्यावतारः स्यात्
इति तु दूर एव स्थिताऽभूत् कथा।
एते पटलोद्यानपादपाः सन्ति
अल्पेन तुष्यन्ति
अल्पेन रमन्ते
अल्पेन जलेन अल्पेन समीरसंसरणेन
अल्पेन सीकरेण प्रसन्ना भवन्ति
अल्पेन रमन्ते
एतान् स्नपयतु प्रेम्णा
एते शिशव इव हसेयुः
स्नपिताः अपेक्षया पश्यन्ति
यथा निगदन्तः स्युः - इतः परं किम्?
क्वचन वेल्लति बोगनवेलियालता
शिर उन्नमय्य दूरं पश्यति
अन्यमनस्का च ब्रूते स्व भ्रातॄन्
यत्र उत्तुङ्गानां
वज्रलेपघटितानां सौधानां काननं प्रसृतम्
तत्र सत्यं कान्तार आसीत्
तस्मिन् कान्तारे मम मातामही आसीत्
यदाहम् उत्पाट्य इह आनीता
तदा विषण्णा आसीत् सा
उच्छिन्ने कान्तारे सा क्व गता स्यात्
एकस्मिन् आवले वटवृक्षः
सम्पिण्डितो निकृत्तः
वामनतां नीतः
कष्टं समुच्छवसिति
तस्य कष्टं वीक्ष्य अन्ये पादपाः
स्मयमानास्तमीक्षन्ते
स सगर्वं ब्रूते - अरे किं पश्यथ
युष्माभिर्मम विराड् रूपं न दृष्टं
अस्मात् समुद्गकात् निष्कास्य कश्चिन्मां रोपयेत् --
उन्मुक्तायां भूमौ,
तदा अहं सर्वतः समुद्गतैर्मूलैःअभितः परितः प्रसरन्
एनं भवनानां कान्तारमेव ध्वंसयेयम्।
आवलेषु पादपाः मौनं स्थिताः
ते कुहूकारैर्न रज्यन्ते
यथा शासकीये विद्यालये
गुरोः दण्डात् भीताः
शिशवः सुखासने तूष्णीं स्थिताः।
गृहस्वामी चिन्तयति -
एतावता तु एतेभ्यो जलं दत्तम्
यदा नलेभ्यश्छदिं यावदुपरि जलं नागच्छेत्
ततः किं भविता?