भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

नवग्रहस्तोत्रम् / वेदव्यास

Kavita Kosh से
Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 19:30, 25 मार्च 2018 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=वेदव्यास |अनुवादक= |संग्रह= }} {{KKCatSanskri...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

रविः ।
जपाकुसुमसङ्काशं काश्यपॆयं महाद्युतिम् ।
तमॊरिं सर्वपापघ्नं प्रणतॊऽस्मि दिवाकरम् ॥

ग्रहाणामादिरादित्यॊ लॊकरक्षणकारकः ।
विशमस्थानसम्भूतं पीडां हरतु मॆ रविः ॥

सॊमः ।
दधिशङ्करुषाराभं क्षीरॊदार्णवसम्भवम् ।
नमामि शशिनं सॊमं शम्भॊर्मुकुटभुषणम् ॥

रॊहिणीशस्सुधामूर्तिः सुधागात्रस्सुधाशनः ।
विशमस्थानसम्भूतां पीडां हरतु मॆ विधुः ॥

मङ्गलः ।
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥

भूमिपुत्रॊ महातॆजा जगतां भयकृत्सदा ।
वृष्ठिकृद्दृष्ठिहर्ता च पीडां हरतु मॆ कुजः ॥

बुधः ।
प्रियङ्गुकलिकाश्यामं रूपॆणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणॊपॆतं तं बुधं प्रणमाम्यहम् ॥

उत्पातरूपिजगतां चद्रपुत्रॊ महाद्युतिः ।
सूर्यप्रियकरॊ विद्वान् पीडां हरतु मॆ बुधः ॥

गुरुः ।
दॆवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् ।
बुद्धिभूतं त्रिलॊकॆशं तं नमामि बृहस्पतिम् ॥

दॆवमन्त्री विशालाक्षः सदा लॊकहितॆरताः ।
अनॆकशिष्यसम्पूर्णः पीडां हरतु मॆ गुरुः ॥

शुक्रः ।
हिमकुण्डमृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥

दैत्यमन्त्री गुरुस्तॆषां प्रणवश्च महद्युतिः ।
प्रभुस्ताराग्रहाणां च पीडाः हरतु मॆ भृगुः ॥

शनि: ।
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्ताण्ड सम्भूतं तं नमामि शनैचरम् ॥

सूर्य पुत्रो दीर्घदेहो विशालाक्ष: शिवप्रिय: ।
दीर्घाचारः प्रसन्नात्मा पीडां हरतु मे शनि: ॥

इति श्रीव्यासविरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं ||