अधोगमनम् / राधावल्लभः त्रिपाठी
भरतेन पाठिताः शतं शिष्याः
कस्यचित्त्वथ कालस्य
ग्राम्यधर्मकं शिल्पकं कर्तुमारेभिरे।
शिल्पकं तत्
ऋषीणां व्यङ्गकरणं
दुराचारं ग्राम्यधर्मप्रवर्तितं
निष्ठुरं चाप्रस्तुतं चाभवत्।
अरे अरे अस्माकमयमुपहासः
अस्माभिः तपस्तप्तं
तस्यायं विपाकः -
इति निगदन्तो भीमरोषप्रकम्पिता:।
ऊचुस्तान् भरतान् क्रुद्धा निर्दहन्त इवाग्नयो मुनयः--
अपि नाम युक्तमिदम्
अस्माकमेतादृशं विडम्बनम्?
एतन्न सहामहे
यूयं व्रात्या भविष्यथ
विना होमैः शूद्राचारा भविष्यथ
अपाङ्क्तेयाः कुत्सिता भविष्यथ।।
एतच्छुत्वा वचनं मुनीनां
विषण्णा भरतपुत्रा पितरं समुपस्थिता:
प्रोक्तवन्तश्च तम् -
अहो नाशिता वयं त्वया
अनेन नाट्यदोषेण शूद्रायिता वयम्
भरत आह --
अरे मुग्धाः
नायं शापः
अयं नाट्यस्य समस्ते उर्वीतले प्रसारस्य अवसरः
तस्यादेशेन नटा
हिमालयादधो याताः
एवमुर्वीतले नाट्यं शिष्यै: समवतारितम्।
भरतानां च वंशोऽयं भविष्यं च प्रवर्तितम्।।