Last modified on 16 अगस्त 2016, at 23:22

संस्कृतस्य अगाधे सरसि / राधावल्लभः त्रिपाठी

Lalit Kumar (चर्चा | योगदान) द्वारा परिवर्तित 23:22, 16 अगस्त 2016 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=राधावल्लभ त्रिपाठी |अनुवादक= |संग...' के साथ नया पृष्ठ बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

संस्कृतम्
अगाधो ह्रदः
अहं तत्र
कश्चन लघुमत्स्यः
यदा कदाचित्
उन्नमय्य तुण्डं जलतलात्
उन्मुक्तम् आकाशम्
अपि विलोकयामि।

संस्कृतस्य अगाधादस्मात् सरोवरात्
सृताः नद्यः
बह्व्यो विलीनाः
सरोवरस्तु इदानीमपि यथापूर्वमवस्थितः।

संस्कृतस्य अगाधे सरसि
अवरुद्धः प्रवाहः
क्वचिद् उत्तिष्ठते शीर्णो दुर्गन्धः
केचन अस्य सरोवरस्य तटे
स्थिताः
गणयन्ति शास्त्रविवर्तान्
केचन मापयन्ति अस्य गहनताम्
केचन उत्तानं मुखं कृत्वा
अनवलोक्य सरोवरं
सरोवरविषये कुर्वन्ति प्रवचनम्।

अपरे लग्नाः
मुहूर्तगवेषणे
श्रीसत्यनारायणकथावाचने
तानसौ दुर्गन्धो न प्रतिभाति।