भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए
Changes
Kavita Kosh से
य एतद्बृहज्जाबालं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स कल्पानधीते स नारशंसीरधीते स पुरणान्यधीते स ब्रह्मप्रणवमधीते स ब्रह्मप्रणवमधीते॥५॥
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकेमेकेन यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समं रुद्रजापकशतमेकेमेकेन अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरःशाखा- ध्यापकशतमेकमेकेन बृहज्जाबालोपनिषदध्यापकेन तत्सम।म् तत्सम। म् तद्वा एतत्परं धाम बृहज्जबालोपनीषज्जपशीलस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखानि प्रविशन्ति सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं यत्र गत्वा न निवर्तन्ते योगिनस्तदेतदृचाभ्युक्तम्। तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।
दिवीव चक्षु--?-- तम्॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।
विष्णोर्यत्परमं पदम्॥ॐ पदम्॥ॐ सत्यमित्युपनिषत्॥६॥
इत्यष्टमं ब्राह्मणम्॥८॥