भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

बृहज्जाबालोपनिषत् / सप्तमं ब्राह्मणम् / संस्कृतम्‌

Kavita Kosh से
यहाँ जाएँ: भ्रमण, खोज

अथ बृहज्जाबालस्य फलं नो ब्रूहि भगवन्निति स होवाच य एतद्बृहज्जाबालं नित्यमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स ब्रह्मपूतो भवति स विष्णुपूतो भवति स रुद्रपूतो भवति स सर्वपूतो भवति स सर्वपूतो भवति॥१॥

य एतद्बृहज्जाबालं नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति स आदित्यं स्तम्भयति स सोमं स्तम्भयति स उदकं स्तम्भयति स सर्वान्देवान्स्तम्भयति स सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति स विषं स्तम्भयति॥२॥

य एतद्बृहज्जाबालं नित्यमधीते स मृत्युं तरति स पाप्मानं तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां तरति स संसारं तरति स सर्वं तरति स सर्वं तरति॥३॥

य एतद्बृहज्जाबालं नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति स सुवर्लोकं जयति स महर्लोकं जयति स तपोलोकं जयति स जनोलोकं जयति स सत्यलोकं जयति स सर्वांल्लोकाञ्जयति॥४॥

य एतद्बृहज्जाबालं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स कल्पानधीते स नारशंसीरधीते स पुरणान्यधीते स ब्रह्मप्रणवमधीते स ब्रह्मप्रणवमधीते॥५॥

अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृहस्थशतमेकमेकेन वानप्रस्थेन तत्समं वानप्रस्थशतमेकेमेकेन यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन रुद्रजापकेन तत्समं रुद्रजापकशतमेकेमेकेन अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरःशाखा- ध्यापकशतमेकमेकेन बृहज्जाबालोपनिषदध्यापकेन तत्सम।

म् तद्वा एतत्परं धाम बृहज्जबालोपनीषज्जपशीलस्य यत्र न सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न मृत्युः प्रविशति यत्र न दुःखानि प्रविशन्ति सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परं पदं यत्र गत्वा न निवर्तन्ते योगिनस्तदेतदृचाभ्युक्तम्।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।

दिवीव चक्षु--?-- तम्॥

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।
विष्णोर्यत्परमं पदम्॥
ॐ सत्यमित्युपनिषत्॥६॥

इत्यष्टमं ब्राह्मणम्॥८॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः।
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः।
व्यशेम देवहितं यदायुः॥

स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिदधातु॥
ॐ शान्तिः शान्तिः शान्तिः॥

इत्यथर्ववेदीय बृहज्जाबालोपनिषत्समाप्ता॥