आप्रातरारात्रि हिमस्य वर्षा
सञ्जायतेऽस्मिन् ननु हेमबर्गे।
आलम्बितं तन्नभसो धरित्रीं
यावत् सितं कान्तिमयं वितानम्।।
तारैरनन्तैः प्रविभासमानैः
किं वर्षति व्योम च रत्नराशिम्।
दत्तं धरायै परिधानमाहो
ज्योत्स्नामयैर्वा बहुभिर्दुकूलैः।।
एते नभस्तो हिमराशिपुञ्जा
पतन्ति शुभ्राच्छछविं दधानाः।
आकाशपिञ्जापकपिञ्ज्यमाना
तूलस्य लेशा इव सन्तरन्ति।।
कासच्छविं सागरफेनराशिं
न्यक्कृत्य शङ्खस्य तथैव कान्तिम्।
हिमस्य शोभा वितता धरायां
स्तब्धा यथा काऽपि च दुग्धकुल्या।।
मार्गेषु रथ्यासु च वाहनेषु
वीथीषु पद्यासु विमर्द्यमानः
राराजते राजतरूपराशी
राशीकृतश्चाप्यसार्यमाणः।।
शाखासु शाखासु तथा द्रुमाणां
हिमस्य पुष्पाणि यथोद्गतानि।
संश्लिष्टपर्णान्यथ धारयन्ति
विलम्बिमुक्ताफलहारशोभाम्।।
अम्लानमालाः सितपङ्कजानां
मार्गेषु चालङ्करणाय दत्ताः।
धारा सुधाया वितता धरायां
धावल्यपूरैः पिदधाति नेत्रम्।
वर्णागमो वर्णविपर्ययश्च
वर्णे विकारश्च तथा प्रणाशः।
अन्यत्र सर्वत्र विलोक्यते वै,
हिमस्य वर्णस्तु सदैव शुभ्रः।।