निर्गच्छंस्त्रपयाSवनम्रवदनः संवत्सरः प्राक्तनः
दित्सन् दायमुवाच खिन्नमनसा चागन्तुकं वत्सरम्।
ऊढो यो मनुजस्य पापनिचयैर्लिप्तो भृशं दुर्वहो
भारोS यं ननु वत्स वत्सर तव स्कन्धे समारोप्यते।।
दम्भोलिप्रखरैः खरैर्नृपशुभिः क्रूरैस्तथा दारुणै-
र्हन्यन्ते च बलात्कृताः प्रतिदिनं कन्यास्तथा चाबलाः।।
क्रव्याद्भिः प्रविलुप्यतेS ङ्गलतिका मातुर्हठान्निर्घृणं
येन श्वापदसङ्कुलेयमवनी सञ्जायते सर्वथा।।
एनां रक्ष च मानय स्वजननीस्तन्यस्य लज्जां तथा
शूलारोपणमेव तान् गमय ये लुण्टन्ति शीलं स्त्रियाम्।
इत्थं वृद्धजनेन खेदसहितं बालो यथा बोधितः
सोS यं नूतनवत्सरोSत्र वनिताक्षेमाय सञ्जायताम्।।