{{KKGlobal}}{{KKRachna|रचनाकार=शास्त्री नित्यगोपाल कटारे |संग्रह=}}[[Category:संस्कृत]]{{KKCatKavita}}<Poem> ॐ जय संस्कृत मातः देवि! जय संस्कृत मातः नित्यं वयं भजामः त्वां सायं प्रातः।।ॐ प्रातः ।। ॐ जय....
देवास्तव महिमानं सर्व गीतवन्तः।गीतवन्तः । कालिदास वाल्मीकिः व्यासादिक सन्ताः।।ॐ सन्ताः ।। ॐ जय .....
पाणिनि कात्यायिन पतञ्जलिः मुनि सेवित चरणा। सन्धि समासालंकृता त्रयष्षष्ठि वर्णा।।ॐ वर्णा ।। ॐ जय ....
प्रत्ययोपसर्गावृत शोभितांगवस्त्रैः। नश्यति तिमिरान्धत्वं षट्कारक शस्त्रैः।।ॐ शस्त्रैः ।। ॐ जय ....
त्वं सद् ज्ञान स्वरूपा त्वं भारत धात्री।धात्री । कामधेनुरिव मातः सत्पदार्थ दात्री।।ॐ दात्री ।। ॐ जय ....
यस्त्वामाराधयते किल पवित्र मनसा।मनसा । लभते फलमभीप्सितं कर्मणा च वचसा।।ॐ वचसा ।। ॐ जय ....
ॐ प्रणवस्य प्रभावं येनाप्यनुभूतम् ।अमृत पदमाप्नोति न पश्यति यमदूतम्।।ॐ यमदूतम् ।। ॐ जय ....
गायति नित्यगोपालः तव ध्यानं कृत्वा।कृत्वा । अहर्निशं सेविष्ये जित्वाऽपि च मृत्वा।।ॐ मृत्वा ।। ॐ जय ....</poem>