Last modified on 19 जून 2014, at 16:51

प्रश्नोपनिषत् / द्वितीयः प्रश्नः / संस्कृतम्‌

Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 16:51, 19 जून 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह=प्रश्नोपनिषत् / ...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

 
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ। भगवन् कत्येव
देवाः प्रचां दिधारयन्ते कतर एतत् प्रकशयन्ते कः
पुनरेषां वरिष्ठ इति॥१॥
 
तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः
पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च। ते प्रकाश्याभिवदन्ति
वयमेतद्बाणमवष्टभ्य विधारयामः॥२॥
 
तान् वरिष्ठः प्राण उवाच। मा मोहमापद्यथ अहमेवैतत्
पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य
विधारयामीति
तेऽश्रद्दधाना बभूवुः॥३॥
 
सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व
एवोत्क्रामन्ते तस्मिश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते
तस्मिष्च प्रत्ष्ठमाने सर्व एव प्रतिष्टन्त एवम् वाङ्मनष्चक्षुः
श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति॥४॥
 
एषोऽग्निस्तपत्येष सूर्य
एष पर्जन्यो मघवानेष वायुः
एष पृथिवी रयिर्देवः
सदसच्चामृतं च यत्॥५॥
 
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्।
ऋचो यजूँषि सामानि यज्ञः क्षत्रं ब्रह्म च॥६॥
 
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति
यः प्रणैः प्रतितिष्ठसि॥७॥
 
देवानामसि वह्नितमः पितृणां प्रथमा स्वधा।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि॥८॥
 
इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता।
त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः॥९॥
 
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति॥१०॥
 
व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः॥११॥
 
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि।
या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः॥१२॥
 
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्।
मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति॥१३॥
 
इति प्रश्नोपनिषदि द्वितीयः प्रश्नः॥