Last modified on 19 जून 2014, at 17:15

प्रश्नोपनिषत् / षष्ठः प्रश्नः / संस्कृतम्‌

Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 17:15, 19 जून 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह=प्रश्नोपनिषत् / ...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

 
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ।
भगवन् हिरण्यनाभः
कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत।
षोडशकलं भारद्वाज पुरुषं वेत्थ।
तमहं कुमारम्ब्रुवं नाहमिमं वेद।
यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति।
समूलो वाएष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम्।
स तूष्णीं रथमारुह्य प्रवव्राज।
तं त्वा पृच्छामि क्वासौ पुरुष इति॥१॥
 
तस्मै स होवाच। इहैइवान्तःशरीरे सोभ्य स पुरुषो
यस्मिन्नताः षोडशकलाः प्रभवन्तीति॥२॥
 
स ईक्षाचक्रे। कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
कस्मिन्वा प्रतिष्टिते प्रतिष्टस्यामीति॥३॥
 
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः।
अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च॥४॥
 
स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं
गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते।
एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं
प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं
प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः॥५॥
 
अरा इव रथनाभौ कला यस्मिन्प्रतिष्टिताः।
तं वेध्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति॥६॥
 
तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद।
नातः परमस्तीति॥७॥
 
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं परं तारयसीति।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः॥८॥
 
इति प्रश्नोपनिषदि षष्ठः प्रश्नः॥
 
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पष्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः॥