Last modified on 20 जून 2014, at 15:07

बृहज्जाबालोपनिषत् / षष्ठं ब्राह्मणम् / संस्कृतम्‌

Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 15:07, 20 जून 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार= |अनुवादक= |संग्रह=बृहज्जाबालोपनि...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

अथ जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवान् त्रिपुण्ड्रविधिं नो ब्रूहीति स होवाच सद्योजातादिपञ्चब्रह्ममन्त्रैः परिगृह्याग्निरिति भस्मेत्यभिमन्त्र्य मानस्तोक इति समुद्धृत्य त्रियायुषमिति जलेन संमृज्य त्र्यम्बकमिति शिरोललाटवक्षःस्कन्धेषु धृत्वा पूतो भवति मोक्षी भवति।
शतरुद्रेण यत्फलमवप्नोति तत्फलमश्नुते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः॥१॥

जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुत इति स होवाच तद्भस्मधारणादेव मुक्तिर्भवति तद्भस्मधारणादेव शिवसायुज्यमवाप्नोति न स पुनरावर्तते न स पुनरावर्तते स एष भस्मज्योतिरिति वै याज्ञवल्क्यः॥२॥

जनको ह वैदेहः स होवाच याज्ञवल्क्यं भस्मधारणात्किं फलमश्नुते न वेति तत्र परमहंसानामसंवर्तक- आरुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेय- रैवतकभुसुण्डप्रभृतयो विभूतिधारणादेवमुक्ताः स्युः स एष भस्मज्योतिरिति वै याज्ञवल्क्यः॥३॥

जनको ह वैदेहः स होवाच याज्ञवल्क्य भस्मस्नानेन किं जायत इति यस्य कस्यचिच्छरीरे यावन्तो रोमकूपास्तावन्ति लिङ्गानि भूत्वा तिष्ठन्ति ब्राह्मणो वा क्षत्रियो वा वैश्यो वा शूद्रो वा तद्भस्मधारणादेतच्छब्दस्य रूपं यस्यां तस्यां ह्येवावतिष्ठते॥४॥

जनको ह वैदेहः स होवाच पैप्पलादेन सह प्रजापतिलोअकं जगाम तं गत्वोवाच भो प्रजापते त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति तं प्रजापतिरब्रवीद्- यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रस्येति॥५॥

अथ पैप्पलादो वैकुण्ठं जगाम तं गत्वोवाच भो विष्णो त्रिपुण्ड्रस्य माहात्म्यं ब्रूहीति यथैवेश्वरस्य माहात्म्यं तथैव त्रिपुण्ड्रकस्येति विष्णुराह॥६॥

अथ पैप्पलादः कालाग्निरुद्रं परिसमेत्योवाचाधीहि भगवन् त्रिपुण्ड्रस्य विधिमिति त्रिपुण्ड्रस्य विधिर्मया वक्तुं न शक्य इति सत्यमिति होवाचाथ भस्मच्छन्नः संसारान्मुच्यते भस्मशय्याशयानस्तच्छब्दगोचरः शिवसायुज्यमवाप्नोति न स पुनरावर्तते रुद्राध्यायी सन्नमृतत्वं च गच्छति स एष भस्मज्योतिर्विभूति- धारणाद्ब्रह्मैकत्वं च गच्छति विभूतिधारणादेव सर्वेषु तीर्थेषु स्नातो भवति विभूतिधारणाद्वाराणस्यां स्नानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योतिर्यस्य कस्यचिच्छरीरे त्रिपुण्ड्रस्य लक्ष्म वर्तते प्रथमा प्रजापतिर्द्वितीया विष्णुस्तृतीया सदाशिव इति स एष भस्मज्योतिरिति स एष भस्मज्योतिरिति॥७॥

अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहि भगवन्रुद्राक्षधारणविधिं स होवाच रुद्रस्य नयनादुत्पन्ना रुद्राक्षा इति लोके ख्यायन्ते सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जाता रुद्राक्षा इति होवाच तस्माद्रुद्राक्षत्वमिति तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोति तत्फलमश्नुते स एष भस्मज्योती रुद्राक्ष इति तद्रुद्राक्षं करेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलं भवति।

तद्रुद्राक्षे एकादशरुद्रत्वं च गच्छति। तद्रुद्राक्षे शिरसि धार्यमाणे कोटिगोप्रदानफलं भवति।
एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच।

मूर्ध्नि चत्वारिंशच्छिखायामेकं त्रयं वा श्रोत्रयोर्द्वादश कर्णे द्वात्रिंशद्बाह्वोः षोडश षोडश द्वादश द्वादश मणिबन्धयोः षट् षडङ्गुष्ठयोस्ततः सन्ध्यां सकुशोऽहरहरुपा- सीताग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात्॥८॥