भारत की संस्कृति के लिए... भाषा की उन्नति के लिए... साहित्य के प्रसार के लिए

विवेकचूडामणि / श्लोक संख्या ५१-१०० / आदि शंकराचार्य

Kavita Kosh से
Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 20:59, 28 जुलाई 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)
यहाँ जाएँ: भ्रमण, खोज

ऋणमोचनकर्तारः पितुः सन्ति सुतादयः।
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन॥ ५१॥

मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते।
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित्॥ ५२॥

पथ्यमौषधसेवा च क्रियते येन रोगिणा।
आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा॥ ५३॥

वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पण्डितेन।
चन्द्रस्वरूपं निजचक्षुषैव
ज्ञातव्यमन्यैरवगम्यते किम्॥ ५४॥

अविद्याकामकर्मादिपाशबन्धं विमोचितुम्।
कः शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि॥ ५५॥

न योगेन न सांख्येन कर्मणा नो न विद्यया।
ब्रह्मात्मैकत्वबोधेन मोक्षः सिध्यति नान्यथा॥ ५६॥

वीणाया रूपसौन्दर्यं तन्त्रीवादनसौष्ठवम्।
प्रजारञ्ज्जनमात्रं तन्न साम्राज्याय कल्पते॥ ५७॥

वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम्।
वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये॥ ५८॥

अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला॥ ५९॥

शब्दजालं महारण्यं चित्तभ्रमणकारणम्।
अतः प्रयत्नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः॥ ६०॥

अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना।
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः॥ ६१॥

न गच्छति विना पानं व्याधिरौषधशब्दतः।
विनापरोक्षानुभवं ब्रह्मशब्दैर्न मुच्यते॥ ६२॥

अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः।
ब्रह्मशब्दैः कुतो मुक्तिरुक्तिमात्रफलैर्नृणाम्॥ ६३॥

अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम्।
राजाहमिति शब्दान्नो राजा भवितुमर्हति॥ ६४॥

आप्तोक्तिं खननं तथोपरिशिलाद्युत्कर्षणं स्वीकृतिं
निक्षेपः समपेक्षते नहि बहिः शब्दैस्तु निर्गच्छति।
तद्वद्ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते
मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्तिभिः॥ ६५॥

तस्मात्सर्वप्रयत्नेन भवबन्धविमुक्तये।
स्वैरेव यत्नः कर्तव्यो रोगादाविव पण्डितैः॥ ६६॥

यस्त्वयाद्य कृतः प्रश्नो वरीयाञ्ज्छास्त्रविन्मतः।
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः॥ ६७॥

शृणुष्वावहितो विद्वन्यन्मया समुदीर्यते।
तदेतच्छ्रवणात्सद्यो भवबन्धाद्विमोक्ष्यसे॥ ६८॥

मोक्षस्य हेतुः प्रथमो निगद्यते
वैराग्यमत्यन्तमनित्यवस्तुषु।
ततः शमश्चापि दमस्तितिक्षा
न्यासः प्रसक्ताखिलकर्मणां भृशम्॥ ६९॥

ततः श्रुतिस्तन्मननं सतत्त्व
ध्यानं चिरं नित्यनिरन्तरं मुनेः।
ततोऽविकल्पं परमेत्य विद्वान्
इहैव निर्वाणसुखं समृच्छति॥ ७०॥

यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम्।
तदुच्यते मया सम्यक्श्रुत्वात्मन्यवधारय॥ ७१॥

मज्जास्थिमेदःपलरक्तचर्म
त्वगाह्वयैर्धातुभिरेभिरन्वितम्।
पादोरुवक्षोभुजपृष्ठमस्तकैः
अङ्गैरुपाङ्गैरुपयुक्तमेतत्॥ ७२॥

अहंममेतिप्रथितं शरीरं
मोहास्पदं स्थूलमितीर्यते बुधैः।
नभोनभस्वद्दहनाम्बुभूमयः
सूक्ष्माणि भूतानि भवन्ति तानि॥ ७३॥

परस्परांशैर्मिलितानि भूत्वा
स्थूलानि च स्थूलशरीरहेतवः।
मात्रास्तदीया विषया भवन्ति
शब्दादयः पञ्च सुखाय भोक्तुः॥ ७४॥

य एषु मूढा विषयेषु बद्धा
रागोरुपाशेन सुदुर्दमेन।
आयान्ति निर्यान्त्यध ऊर्ध्वमुच्चैः
स्वकर्मदूतेन जवेन नीताः॥ ७५॥

शब्दादिभिः पञ्चभिरेव पञ्च
पञ्चत्वमापुः स्वगुणेन बद्धाः।
कुरङ्गमातङ्गपतङ्गमीन
भृङ्गा नरः पञ्चभिरञ्चितः किम्॥ ७६॥

दोषेण तीव्रो विषयः कृष्णसर्पविषादपि।
विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम्॥ ७७॥

विषयाशामहापाशाद्यो विमुक्तः सुदुस्त्यजात् ।
स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि॥ ७८॥

आपातवैराग्यवतो मुमुक्षून्
भवाब्धिपारं प्रतियातुमुद्यतान्।
आशाग्रहो मज्जयतेऽन्तराले
निगृह्य कण्ठे विनिवर्त्य वेगात्॥ ७९॥

विषयाख्यग्रहो येन सुविरक्त्यसिना हतः।
स गच्छति भवाम्भोधेः पारं प्रत्यूहवर्जितः॥ ८०॥

विषमविषयमार्गैर्गच्छतोऽनच्छबुद्धेः
प्रतिपदमभियातो मृत्युरप्येष विद्धि।
हितसुजनगुरुक्त्या गच्छतः स्वस्य युक्त्या
प्रभवति फलसिद्धिः सत्यमित्येव विद्धि॥ ८१॥

मोक्षस्य कांक्षा यदि वै तवास्ति
त्यजातिदूराद्विषयान्विषं यथा।
पीयूषवत्तोषदयाक्षमार्जव
प्रशान्तिदान्तीर्भज नित्यमादरात्॥ ८२॥

अनुक्षणं यत्परिहृत्य कृत्यं
अनाद्यविद्याकृतबन्धमोक्षणम्।
देहः परार्थोऽयममुष्य पोषणे
यः सज्जते स स्वमनेन हन्ति॥ ८३॥

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षति।
ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्छति॥ ८४॥

मोह एव महामृत्युर्मुमुक्षोर्वपुरादिषु।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति॥ ८५॥

मोहं जहि महामृत्युं देहदारसुतादिषु।
यं जित्वा मुनयो यान्ति तद्विष्णोः परमं पदम्॥ ८६॥

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंकुलम्।
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपुः॥ ८७॥

पञ्चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः
अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः॥ ८८॥

बाह्येन्द्रियैः स्थूलपदार्थसेवां
स्रक्चन्दनस्त्र्यादिविचित्ररूपाम्।
करोति जीवः स्वयमेतदात्मना
तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे॥ ८९॥

सर्वापि बाह्यसंसारः पुरुषस्य यदाश्रयः।
विद्धि देहमिदं स्थूलं गृहवद्गृहमेधिनः॥ ९०॥

स्थूलस्य संभवजरामरणानि धर्माः
स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः।
वर्णाश्रमादिनियमा बहुधामयाः स्युः
पूजावमानबहुमानमुखा विशेषाः॥ ९१॥

बुद्धीन्द्रियाणि श्रवणं त्वगक्षि
घ्राणं च जिव्हा विषयावबोधनात् ।
वाक्पाणिपादा गुदमप्युपस्थः
कर्मेन्द्रियाणि प्रवणेन कर्मसु॥ ९२॥


निगद्यतेऽन्तःकरणं मनोधीः
अहंकृतिश्चित्तमिति स्ववृत्तिभिः।
मनस्तु संकल्पविकल्पनादिभिः
बुद्धिः पदार्थाध्यवसायधर्मतः॥ ९३॥

अत्राभिमानादहमित्यहंकृतिः।
स्वार्थानुसन्धानगुणेन चित्तम्॥ ९४॥

प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः।
स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत्॥ ९५॥

वागादि पञ्च श्रवणादि पञ्च
प्राणादि पञ्चाभ्रमुखानि पञ्च।
बुद्ध्याद्यविद्यापि च कामकर्मणी
पुर्यष्टकं सूक्ष्मशरीरमाहुः॥ ९६॥

इदं शरीरं शृणु सूक्ष्मसंज्ञितं
लिङ्गं त्वपञ्चीकृतसंभवम्।
सवासनं कर्मफलानुभावकं
स्वाज्ञानतोऽनादिरुपाधिरात्मनः॥ ९७॥

स्वप्नो भवत्यस्य विभक्त्यवस्था
स्वमात्रशेषेण विभाति यत्र।
स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्
कालीननानाविधवासनाभिः॥ ९८॥

कर्त्रादिभावं प्रतिपद्य राजते
यत्र स्वयं भाति ह्ययं परात्मा।
धीमात्रकोपाधिरशेषसाक्षी
न लिप्यते तत्कृतकर्मलेशैः
यस्मादसङ्गस्तत एव कर्मभिः
न लिप्यते किंचिदुपाधिना कृतैः॥ ९९॥

सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्चिदात्मनः पुंसः।
वास्यादिकमिव तक्ष्णस्तेनैवात्मा भवत्यसङ्गोऽयम्॥ १००॥