Last modified on 28 जुलाई 2014, at 21:08

विवेकचूडामणि / श्लोक संख्या २०१-२५० / आदि शंकराचार्य

Sharda suman (चर्चा | योगदान) द्वारा परिवर्तित 21:08, 28 जुलाई 2014 का अवतरण ('{{KKGlobal}} {{KKRachna |रचनाकार=आदि शंकराचार्य |अनुवादक= |संग्रह=...' के साथ नया पन्ना बनाया)

(अंतर) ← पुराना अवतरण | वर्तमान अवतरण (अंतर) | नया अवतरण → (अंतर)

जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्षणः।
संबन्धस्त्वात्मनो बुद्ध्या मिथ्याज्ञानपुरःसरः॥ २०१॥

विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा।
ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम्॥ २०२॥

तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति।
ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः॥ २०३॥

जलं पङ्कवदत्यन्तं पङ्कापाये जलं स्फुटम्।
यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः॥ २०४॥

असन्निवृत्तौ तु सदात्मना स्फुटं
प्रतीतिरेतस्य भवेत्प्रतीचः।
ततो निरासः करणीय एव
सदात्मनः साध्वहमादिवस्तुनः॥ २०५॥

अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक्।
विकारित्वाज्जडत्वाच्च परिच्छिन्नत्वहेतुतः।
दृश्यत्वाद्व्यभिचारित्वान्नानित्यो नित्य इष्यते॥ २०६॥

आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता
स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः।
पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं
सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्नं विना॥ २०७॥

आनन्दमयकोशस्य सुषुप्तौ स्फूर्तिरुत्कटा।
स्वप्नजागरयोरीषदिष्टसंदर्शनाविना॥ २०८॥

नैवायमानन्दमयः परात्मा
सोपाधिकत्वात्प्रकृतेर्विकारात्।
कार्यत्वहेतोः सुकृतक्रियाया
विकारसङ्घातसमाहितत्वात्॥ २०९॥

पञ्चानामपि कोशानां निषेधे युक्तितः श्रुतेः।
तन्निषेधावधि साक्षी बोधरूपोऽवशिष्यते॥ २१०॥

योऽयमात्मा स्वयंज्योतिः पञ्चकोशविलक्षणः।
अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता॥ २११॥

शिष्य उवाच

मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु।
सर्वाभावं विना किंचिन्न पश्याम्यत्र हे गुरो
विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्मविपश्चिता॥ २१२॥

श्रीगुरुरुवाच

सत्यमुक्तं त्वया विदन्निपुणोऽसि विचारणे।
अहमादिविकारास्ते तदभावोऽयमप्यनु॥ २१३॥

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते।
तमात्मानं वेदितारं विद्दि बुद्ध्या सुसूक्ष्मया॥ २१४॥

तत्साक्षिकं भवेत्तत्तद्यद्यद्येनानुभूयते।
कस्याप्यननुभूतार्थे साक्षित्वं नोपयुज्यते॥ २१५॥

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते।
अतः परं स्वयं साक्षात्प्रत्यगात्मा न चेतरः॥ २१६॥

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा।
नानाकारविकारभागिन इमान् पश्यन्नहंधीमुखान्
नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि॥ २१७॥

घटोदके बिम्बितमर्कबिम्बम्
आलोक्य मूढो रविमेव मन्यते।
तथा चिदाभासमुपाधिसंस्थं
भ्रान्त्याहमित्येव जडोऽभिमन्यते॥ २१८॥

घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं विनिरीक्ष्यतेऽर्कः।
तटस्थ एतत्त्रितयावभासकः
स्वयंप्रकाशो विदुषा यथा तथा॥ २१९॥

देहं धियं चित्प्रतिबिम्बमेवं
विसृज्य बुद्धौ निहितं गुहायाम्।
द्रष्टारमात्मानमखण्डबोधं
सर्वप्रकाशं सदसद्विलक्षणम्॥ २२०॥

नित्यं विभुं सर्वगतं सुसूक्ष्मं
अन्तर्बहिःशून्यमनन्यमात्मनः।
विज्ञाय सम्यङ्निजरूपमेतत्
पुमान् विपाप्मा विरजो विमृत्युः॥ २२१॥

विशोक आनन्दघनो विपश्चित्
स्वयं कुतश्चिन्न बिभेति कश्चित्।
नान्योऽस्ति पन्था भवबन्धमुक्तेः
विना स्वतत्त्वावगमं मुमुक्षोः॥ २२२॥

ब्रह्माभिन्नत्वविज्ञानं भवमोक्षस्य कारणम्।
येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः॥ २२३॥

ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः।
विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः॥ २२४॥

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम्।
नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति॥ २२५॥

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात्।
न ह्यन्यदस्ति किंचित्सम्यक्परमार्थतत्त्वबोधदशायाम्॥ २२६॥

यदिदं सकलं विश्वं नानारूपं प्रतीतमज्ञानात्।
तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम्॥ २२७॥

मृत्कार्यभूतोऽपि मृदो न भिन्नः
कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात्।
न कुम्भरूपं पृथगस्ति कुम्भः
कुतो मृषा कल्पितनाममात्रः॥ २२८॥

केनापि मृद्भिन्नतया स्वरूपं
घटस्य संदर्शयितुं न शक्यते।
अतो घटः कल्पित एव मोहान्
मृदेव सत्यं परमार्थभूतम्॥ २२९॥

सद्ब्रह्मकार्यं सकलं सदेवं
तन्मात्रमेतन्न ततोऽन्यदस्ति।
अस्तीति यो वक्ति न तस्य मोहो
विनिर्गतो निद्रितवत्प्रजल्पः॥ २३०॥

ब्रह्मैवेदं विश्वमित्येव वाणी
श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा।
तस्मादेतद्ब्रह्ममात्रं हि विश्वं
नाधिष्ठानाद्भिन्नतारोपितस्य॥ २३१॥

सत्यं यदि स्याज्जगदेतदात्मनो
ऽनन्तत्त्वहानिर्निगमाप्रमाणता।
असत्यवादित्वमपीशितुः स्यान्
नैतत्त्रयं साधु हितं महात्मनाम्॥ २३२॥

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः।
न च मत्स्थानि भूतानीत्येवमेव व्यचीकॢपत्॥ २३३॥

यदि सत्यं भवेद्विश्वं सुषुप्तामुपलभ्यताम्।
यन्नोपलभ्यते किंचिदतोऽसत्स्वप्नवन्मृषा॥ २३४॥

अतः पृथङ्नास्ति जगत्परात्मनः
पृथक्प्रतीतिस्तु मृषा गुणादिवत्।
आरोपितस्यास्ति किमर्थवत्ताद्
धिष्ठानमाभाति तथा भ्रमेण॥ २३५॥

भ्रान्तस्य यद्यद्भ्रमतः प्रतीतं
भ्रामैव तत्तद्रजतं हि शुक्तिः।
इदंतया ब्रह्म सदैव रूप्यते
त्वारोपितं ब्रह्मणि नाममात्रम्॥ २३६॥

अतः परं ब्रह्म सदद्वितीयं
विशुद्धविज्ञानघनं निरञ्जनम्।
प्राशान्तमाद्यन्तविहीनमक्रियं
निरन्तरानन्दरसस्वरूपम्॥ २३७॥

निरस्तमायाकृतसर्वभेदं
नित्यं सुखं निष्कलमप्रमेयम्।
अरूपमव्यक्तमनाख्यमव्ययं
ज्योतिः स्वयं किंचिदिदं चकास्ति॥ २३८॥

ज्ञातृज्ञेयज्ञानशून्यमनन्तं निर्विकल्पकम्।
केवलाखण्डचिन्मात्रं परं तत्त्वं विदुर्बुधाः॥ २३९॥

अहेयमनुपादेयं मनोवाचामगोचरम्।
अप्रमेयमनाद्यन्तं ब्रह्म पूर्णमहं महः॥ २४०॥

तत्त्वंपदाभ्यामभिधीयमानयोः
ब्रह्मात्मनोः शोधितयोर्यदीत्थम्।
श्रुत्या तयोस्तत्त्वमसीति सम्यग्
एकत्वमेव प्रतिपाद्यते मुहुः॥ २४१.

ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः
निगद्यतेऽन्योन्यविरुद्धधर्मिणोः।
खद्योतभान्वोरिव राजभृत्ययोः
कूपाम्बुराश्योः परमाणुमेर्वोः॥ २४२॥

तयोर्विरोधोऽयमुपाधिकल्पितो
न वास्तवः कश्चिदुपाधिरेषः।
ईशस्य माया महदादिकारणं
जीवस्य कार्यं शृणु पञ्चकोशम्॥ २४३॥

एतावुपाधी परजीवयोस्तयोः
सम्यङ्निरासे न परो न जीवः।
राज्यं नरेन्द्रस्य भटस्य खेटक्
तयोरपोहे न भटो न राजा॥ २४४॥

अथात आदेश इति श्रुतिः स्वयं
निषेधति ब्रह्मणि कल्पितं द्वयम्।
श्रुतिप्रमाणानुगृहीतबोधात्
तयोर्निरासः करणीय एव॥ २४५॥

नेदं नेदं कल्पितत्वान्न सत्यं
रज्जुदृष्टव्यालवत्स्वप्नवच्च।
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
ज्ञेयः पश्चादेकभावस्तयोर्यः॥ २४६॥

ततस्तु तौ लक्षणया सुलक्ष्यौ
तयोरखण्डैकरसत्वसिद्धये।
नालं जहत्या न तथाजहत्या
किन्तूभयार्थात्मिकयैव भाव्यम्॥ २४७॥

स देवदत्तोऽयमितीह चैकता
विरुद्धधर्मांशमपास्य कथ्यते।
यथा तथा तत्त्वमसीतिवाक्ये
विरुद्धधर्मानुभयत्र हित्वा॥ २४८॥

संलक्ष्य चिन्मात्रतया सदात्मनोः
अखण्डभावः परिचीयते बुधैः।
एवं महावाक्यशतेन कथ्यते
ब्रह्मात्मनोरैक्यमखण्डभावः॥ २४९॥

अस्थूलमित्येतदसन्निरस्य
सिद्धं स्वतो व्योमवदप्रतर्क्यम्।
अतो मृषामात्रमिदं प्रतीतं
जहीहि यत्स्वात्मतया गृहीतम्
ब्रह्माहमित्येव विशुद्धबुद्ध्या
विद्धि स्वमात्मानमखण्डबोधम्॥ २५०॥